हेमवतीनन्दनबहुगुणागढ़वाले केन्द्रीयविश्वविद्यालये पौडीसंस्कृतविभागे “वैश्वीकरणस्य नैतिकता” विषयेस्मिन् व्याख्यानम्
कुलदीपमैन्दोला। पौड़ीजनपदे हेमवतीनन्दनबहुगुणागढ़वालस्य केन्द्रीयविश्वविद्यालयस्य बी.जी.आर.-पौडीपरिसरे संस्कृतविभागेन श्रृंखलायां तृतीय-व्याख्यानं समायोजितम्।
कार्यक्रमस्य शुभारम्भः केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरघुनाथकीर्तिपरिसरस्य आचार्येण डॉ. अङ्कुरवत्स-महोदयेन छात्रैः सह वैदिक-मङ्गलाचरणेन कृतः।अस्मिन् अवसरॆ मुख्यवक्तृरूपेण पद्मश्री-सम्मानित: प्रख्यातविद्वान् पुष्पेश पंत-महोदयः “वैश्वीकरणस्य नैतिकता” अस्मिन् विषये सारगर्भितं विचारोत्तेजकं च व्याख्यानम् अददात्। तेन उक्तं यत् वैश्वीकरणस्य मूलभावना प्राचीनकालादेव समावेशिता-सहमति-सहअस्तित्व-आधारिता अभूत्, किन्तु आधुनिककाले तस्य नैतिकपक्षे पुनर्विचारः आवश्यकः।
कार्यक्रमस्य अध्यक्षता परिसरनिदेशकः प्रो. यू.सी. गैरोला-महोदयः अकरोत्। संचालनं संस्कृतविभागस्य प्रभारी-विभागाध्यक्षेन डॉ. दिनेशचन्द्रपाण्डेय-महोदयेन कृतम्। अन्ते इतिहासविभागस्य डॉ. नीलमनेगी-महोदयया धन्यवादज्ञापनं प्रस्तुतम्।
भारतीयज्ञानपरम्परायाः वैश्विक-नैतिकदृष्टेः प्रतिपादनम्
संस्कृतविभागेन आयोजिते अस्मिन् व्याख्याने पुष्पेश पंत-महोदयः अवदत् यत् विंशतिशताब्द्याः उत्तरार्धे उदारवादी-पूंजीवादी-शक्तिभिः वैश्वीकरणस्य एकः विशिष्टः प्रतिदर्श: विश्वे आरोपितः, यस्य नैतिकपरिमाणेषु गम्भीरः विचारः करणीयः अस्ति। तेन भारतीयपरम्परायां निहितस्य नैतिकचिन्तनस्य बहुलता, सार्वभौमिकदृष्टिश्च विशदतया विवृता। तेन उक्तं यत् भारतीयज्ञानपरम्परा “वसुधैव कुटुम्बकम्” इति भावनया सदा प्रेरिता अस्ति। अस्मिन् कार्यक्रमे समन्वयिका प्रो. कुसुमडोबरियाल-महोदया, विविधविभागानां शिक्षकाः, शोधार्थिनः बहवः छात्राः च उपस्थिताः आसन्
हेमवतीनन्दनबहुगुणागढ़वाले केन्द्रीयविश्वविद्यालये पौडीसंस्कृतविभागे “वैश्वीकरणस्य नैतिकता” विषयेस्मिन् व्याख्यानम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
