By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रामनगरमहाविद्यालये भारतबौद्धिक-राष्ट्रीयपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तराखण्डवार्ताः > रामनगरमहाविद्यालये भारतबौद्धिक-राष्ट्रीयपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिता
उत्तराखण्डवार्ताः

रामनगरमहाविद्यालये भारतबौद्धिक-राष्ट्रीयपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिता

डॉ.अमनदीप शर्मा
Last updated: 2026/02/03 at 5:09 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

रामनगरमहाविद्यालये भारतबौद्धिक-राष्ट्रीयपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिताभवत् ।

विद्याभारतीद्वारा समायोजिता परीक्षा

रामनगरम्। कुलदीपमैन्दोला। पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये स्नातक-स्नातकोत्तरस्तरस्य छात्र-छात्राणां कृते विद्या-भारती-उच्चशिक्षासंस्थान- उत्तराखण्डेन आयोजितायां भारतबौद्धिक-राष्ट्रीयपरीक्षायां (2025–26) छात्रैः छात्राभिश्च अत्यन्तोत्साहेन सहभागिता कृताऽभवत्।
परीक्षाप्रभारिणा डॉ. शरदभट्टेन प्रोक्तम् यत् अस्यां परीक्षायां समग्रतया 213 विद्यार्थिनः पञ्जीकृताः आसन्, येषु 124 छात्राः छात्राश्च 31 जनवरीदिनाङ्के रामनगरमहाविद्यालयस्थिते परीक्षा-केन्द्रे समये उपस्थिताः अभवन्। परीक्षा-समयः प्रातः 10 वादनेभ्यः मध्याह्न 12 वादनपर्यन्तं आसीत्।

परीक्षार्थिनः अवदन् यत् परीक्षायां कला-विज्ञान-वाणिज्यादिविषयेषु आधारितायाः भारतीय-ज्ञानपरम्परायाः विषये प्रश्नाः पृष्टाः। प्रथमभागे 180 बहुविकल्पीयप्रश्नेषु 80 प्रश्नाणां उत्तरलेखनं अपेक्षितम् आसीत्, द्वितीयभागे च 20 अङ्कानां विस्तृतोत्तरात्मकप्रश्नेषु एकस्य उत्तरं लिखितव्यम् आसीत्। उभयविधेषु प्रश्नेषु ज्ञानवर्धकत्वं अनुभूतमिति विद्यार्थिभिः कथितम्।

विद्यार्थिनां कथनानुसारं एतादृशीनां परीक्षाणां आयोजनं निरन्तरं भवेत्, येन भारतीयसंस्कृतेः, संस्काराणां च भारतीयज्ञानपरम्परायाः विषये सहजतया अवगम्य अन्यासु प्रतियोगितापरीक्षासु अपि सफलतां प्राप्तुं शक्यते।
डॉ. सुभाषपोखरियालेन सूचितं यत् परीक्षा-समाप्तेः अनन्तरं सर्वेभ्यः प्रतिभागिभ्यः सहभागिता-प्रमाणपत्राणि प्रदत्तानि सन्ति। डॉ. मूलचन्द्रशुक्लेन उक्तं यत् प्राप्तसूचनानुसारं राष्ट्रीयस्तरे मूल्याङ्कनं कृत्वा प्रथम-द्वितीय-तृतीय- सान्त्वनस्थानप्राप्तविद्यार्थिनां निर्धारणं कृत्वा परीक्षाफलं शीघ्रं घोषितं भविष्यति तथा पुरस्कारैः सम्माननं च क्रियते।

बौद्धिकपरीक्षायाः सुचारुसम्पादनार्थं महाविद्यालयस्य प्राचार्यः प्रो. एम.सी. पाण्डेय: गठितसमितिसंयोजकः डॉ. मूलचन्द्रशुक्लः, परीक्षाप्रभारी डॉ. शरदभट्टः, डॉ. नीमा राणा, डॉ. सुभाषपोखरियालः, डॉ. मनोजनैनवालः, डॉ. हेमचन्द्रभट्टः च सम्मिलिताः आसन्। तैः सर्वैः परीक्षा-एवं-मूल्याङ्कनकार्यं पारदर्शितया तथा सकुशलतया सम्पन्नीकृतम्। प्रभारीप्राचार्यः डॉ. दीपकखातीमहोदयेन समस्तपरीक्षार्थिभ्य: उत्तमाङ्कप्राप्तये स्थानलाभाय च हार्दिकाशिषः प्रदत्त: ।

You Might Also Like

मुख्यमंत्रिणा धामिना जनसमस्यानां त्वरिताय समयबद्धसमाधानाय दत्तः निर्देशः

उत्तराखण्ड-विधानसभायाम् ‘देवभूमि-परिवार-विधेयक-2026’ प्रस्तुतम्

हेमवतीनन्दनबहुगुणागढ़वाले केन्द्रीयविश्वविद्यालये पौडीसंस्कृतविभागे “वैश्वीकरणस्य नैतिकता” विषयेस्मिन् व्याख्यानम्

उत्तराखण्डसंस्कृत-अकादम्याः प्रदर्शनी राज्यस्तरे द्वितीयं स्थानं प्राप्तवती

मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article उच्चन्यायालयपरिसरे गङ्गानाथझापरिसरनिदेशकस्यप्रो. ललितकुमारत्रिपाठिनः सम्माननम्
Next Article मुक्तिनाथ-क्षेत्रस्य महत्त्वम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?