रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्
हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे,रामटेकम्।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य ‘भरतमुनि-ललितकला-केन्द्रस्य’ तत्त्वावधाने एका भव्या गायन-प्रतियोगिता साफल्येन आयोजिता। अस्यां प्रतियोगितायां रामटेक-नगरस्य समीपवर्ति-क्षेत्राणां च विविधेभ्यः विद्यालयेभ्यः प्रायः षष्टिः (६०) लघु-बालकाः सोत्साहं भागं गृहीतवन्तः।
एषः कार्यक्रमः माननीय-कुलगुरूणां प्रो. अतुल-वैद्य-महोदयानां दिव्य-प्रेरणया सम्पन्नः अभवत्। कार्यक्रमस्य मुख्यातिथि-रूपेण प्रो. ललिता-चन्द्राते-जोशी महोदया उपस्थिता आसीत्। विशिष्टातिथिरूपेण कुलसचिवः डॉ. रोशन-आलोने, वित्ताधिकारी श्री-विजयेंद्र-पाण्डेयः, पुस्तकालयाध्यक्षः डॉ. दीपक-कापडे च गौरवमयीं उपस्थितिं दर्जितवन्तः।
सर्वैः अतिथिभिः दीपप्रज्ज्वलनं कृत्वा कार्यक्रमस्य विधिवत् शुभारम्भः कृतः। प्रतियोगितायां श्रेष्ठ-प्रदर्शनं कृतवद्भ्यः प्रथम-द्वितीय-तृतीय-चतुर्थ-पञ्चम-स्थानं प्राप्तवद्भ्यः छात्रेभ्यः विद्यापीठस्य पक्षतः नकद-धनराशिः गौरव-प्रमाणपत्राणि च प्रदाय पुरस्कृतं कृतम्। अस्मिन् अवसरे भरतमुनि-ललितकला-केन्द्रस्य सञ्चालकः डॉ. अनिल-कुमार-दुबे महोदयः निर्णायक-मण्डले उपस्थितः आसीत्।सञ्चालकेन सूचितं यत् २०१९ तमे वर्षे केन्द्रस्य स्थापनानन्तरं विश्वविद्यालयः निरन्तरं सृजनात्मक-गतिविधीनां सञ्चालनं करोति। सः अवदत् यत् कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः स्वकीयेभ्यः सांस्कृतिक-कार्यक्रमेभ्यः सम्पूर्णदेशे विश्रुतं स्थानं धारयति। अधुना यावत् अस्य केन्द्रस्य माध्यमेन प्रायः ४५० छात्रेभ्यः सङ्गीतस्य (गायनस्य) प्रशिक्षणं दत्तं वर्तते।
रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
