By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 
दिवसविशेषःहिमाचलवार्ता

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

डॉ मनोज शैल
Last updated: 2026/02/15 at 10:04 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

राष्ट्रसेवायाम् ठाकुररामसिंहमहोदयस्य योगदानं श्लाघनीयम् – जेपी नड्डा 

हमीरपुरे ठाकुररामसिंहमहोदयस्य जयन्त्यां एकस्मिन् मञ्चे आगतौ जे. पी. नड्डा प्रेमकुमारधूमलश्च।

हिमसंस्कृतवार्ता:- (डॉ मनोजशैल:) हमीरपुरम्।

हमीरपुरजनपदस्य ‘ठाकुररामसिंहइतिहास- शोधसंस्थानम् नेरी’ इत्यत्र ठाकुररामसिंहमहोदयस्य १११ तमः जयन्ती-समारोहः आयोजितः। अस्मिन् उपलक्ष्ये मुख्यतिथिरूपेण केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा उपस्थितः आसीत्। तत्रैव पूर्वमुख्यमन्त्री प्रो. प्रेमकुमारधूमलः विशिष्टातिथिरूपेण उपस्थितः आसीत्। उभौ नेतृवरौ दीर्घकालानन्तरं एकस्मिन् मञ्चे दृश्येते स्म। कार्यक्रमे राष्ट्रियस्वयंसेवकसङ्घस्य अखिलभारतीय- कार्यकारिणीसदस्यः सुरेश सोनी मुख्यवक्ता आसीत्।

अखिलभारतीय- इतिहास- संकलन- योजनायाः अध्यक्षः प्रो. ईश्वरशरण: विश्वकर्मा कार्यक्रमस्य अध्यक्षः आसीत्। डॉ. राजेन्द्र प्रसाद- केन्द्रीय- विश्वविद्यालय: (पूसा, बिहार) इत्यस्य कुलाधिपतिः डॉ. प्रेमलालगौतमः, शोधसंस्थानस्य अध्यक्षः प्रो. भागचन्द: चौहानः, निदेशकः सङ्गठनसचिवश्च डॉ. चेतराम गर्गः मञ्चासीनाः आसन्। कार्यक्रपात् पूर्वं ठाकुररामसिंह महोदयस्य प्रतिमायाः अनावरणम्, शोधसंस्थानस्य कार्याणां डिजिटलीकरणम् (Digitization) संस्थानस्य प्रदशर्न्याः अवलोकनं चापि कृतम्।

अग्रिम-संततिभ्यः सदैव प्रेरणा

केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाशनड्डा ठाकुररामसिंहमहोदयं स्मरन् अवदत् यत् अद्य वयं तादृशस्य महानुभावस्य जयन्तीं मानयामः यः अग्रिम- संततिभ्यः सदैव प्रेरणां दास्यति। वयं सर्वे जानीमः यत् भारतस्य विंशति-शताब्दी कीदृशी आसीत्, तासु परिस्थितिषु १९४१ तमे वर्षे एकः युवा राष्ट्रियस्वयंसेवकसङ्घस्य सम्पर्कम् आगत्य स्वकीयं सम्पूर्णं जीवनं राष्ट्रसेवायै समर्पितवान्। अष्टाशीति (८८) वर्षस्य वयसि इतिहास- संकलन- सदृशं नूतनं प्रकल्पं प्रारभ्य तत् पूर्णं कर्तुं ठाकुररामसिंहमहोदयस्य दृढेच्छाशक्तिं सङ्घटनकौशलं च दर्शयति।

लोकपरम्पराभ्यः नूतन: परिचयः प्रदत्त:- सुरेशसोनी

मुख्यवक्ता सुरेश: सोनी अवदत् यत् वयं तादृशस्य इतिहासकारस्य १११ तमं जन्मदिवसं स्मर्तुं एकत्रिताः स्मः येन स्वलेखनेन न केवलं हिमाचलस्य सांस्कृतिकचेतनायै स्वरः दत्तः, अपि तु इतिहास- लोकपरम्पराभ्यः नूतनः परिचयः अपि प्रदतः। “तूष्णीम् आगच्छ, योगदानं देहि, अग्रे गच्छ” इति भारतस्य या परम्परा वर्तते, रामसिंहमहोदयः तस्याः परम्परायाः संवाहकः आसीत्।

इतिहासार्थं समर्पितं जीवनम्- विश्वकर्मा

प्रो. ईश्वरशरण: विश्वकर्मा अवदत् यत् ठाकुर रामसिंहमहोदयः अस्माकं मनस्वी आसीत्। १९९४ तः १९९६ पर्यन्तं इतिहास-संकलनस्य त्रीणि बृहद्- अधिवेशनानि तस्य नेतृत्वे अभवन्। ‘विकसित भारतम् २०४७’ इत्यस्य लक्ष्यप्राप्तौ इतिहासकाराणां महत्त्वपूर्णा भूमिका अस्ति, यतः प्रमाणिकेतिहासं विना भारतस्य आत्मा पूर्णरूपेण विकसिता न भविष्यति।

रामसिंहमहोदयेन इतिहासाय नूतना दिशा प्रदत्ता- धूमलः

विशिष्टातिथिः प्रो. प्रेमकुमारधूमलः अवदत् यत् ठाकुररामसिंहमहोदयस्य व्यक्तित्वं महान् आसीत्। अष्टाशीति (८८) वर्षस्य वयसि शोधसंस्थानस्य स्थापनायाः यः सङ्कल्पः तेन कृतः, सः अद्य फलवान् जातः। सः उक्तवान् यत् रामसिंहमहोदयस्य जीवनम् अस्माकं कृते एकः प्रकाशस्तम्भः अस्ति, यः अस्मान् स्वसंस्कृत्या इतिहासैः मूल्यैश्च सह संलग्नान् स्थातुं प्रेरयति।

ग्रन्थानां विमोचनम्

अस्मिन् अवसरे संस्थानेन प्रकाशितायाः ‘स्मारिका वार्षिकप्रतिवेदनम् (2025-26)’ इत्यस्याः तथा पञ्चानां पुस्तकानां च विमोचनं कृतम्-

१. ‘ऋग्वेद में पश्चिमी हिमालय के संदर्भ’ (सम्पादकः: डॉ. ओम दत्त सरोचः, डॉ. अमित शर्मा, शशि शर्मा)

२. ‘हिमाचल प्रदेश की सांस्कृतिक विरासत’ (सम्पादकः बारूरामठाकुरः, मिहिर बोराना)

३. ‘हिमाचल प्रदेश के गांव’ (सम्पादकः: डॉ. राकेश कुमार शर्मा, ऋषिकुमार:)

४. ‘लेखक डॉ. बिन्दू साहनी’ (सम्पादकः- राजेन्द्रकुमारः, बिन्दू साहनी)

कार्यक्रमस्य अन्ते प्रो. भाग चन्द चौहानः सर्वेषां धन्यवादं कृतवान्।

 

 

You Might Also Like

KKSU Ramtek – ‘विश्वमन’-संकल्पनायाः विषये अधिकं शोधं करणीयम् – प्रो. मधुसूदन-पेन्ना

HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः

Himachal News – स्वास्थ्य-संस्थानेषु सुविधानां कृते १६१७ कोटि-रूप्यकाणि अनुमोदितानि

HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, जेपी नड्डा, जेपीनड्डा, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article वेदविभागेन “भारतीयसेनान्यः प्रति युवसु जागरूकता” विषये एकदिवसीया राष्ट्रीयसंगोष्ठी सुसम्पन्ना
Next Article HP Vidhan Sabha Budget Session – विधानसभा-सत्राय सुदृढाः सुरक्षा-व्यवस्थाः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?