भारत-कीनिया देशयोः मध्ये ‘डिजी-लॉकर’ सन्धिः
भारत-कीनिया-देशयोः मध्ये नवदेहली-नगरे ‘एआई इम्पैक्ट समिट’ (AI Impact Summit) अवसरे कीनिया-देशे ‘डिजी-लॉकर’ (DigiLocker) मार्गदर्शी-परियोजनायाः (Pilot Project) कार्यान्वयन-रूपरेखा-सन्धेः हस्ताक्षरम् अभवत्।
नैरोबी-स्थितेन भारतीय-उच्चायोगेन सामाजिक-माध्यमेन सूचितं यत् ‘डिजी-लॉकर’ समाधानं आधिकारिक-प्रपत्राणां सुरक्षितं डिजिटल-सञ्चयम् अपरोक्षं (Real-time) सत्यापनं च कर्तुं समर्थं भविष्यति। अनेन पत्र-कार्यस्य न्यूनता भविष्यति तथा च नागरिकाणाम्, छात्राणाम्, उद्यमिनां च कृते सार्वजनिक-सेवासु सुलभता वर्धिष्यते।भारते ‘डिजी-लॉकर’ इत्यस्य ५० कोटिभ्यः (५०० मिलियन्) अधिकाः पञ्जीकृत-प्रयोक्तारः सन्ति। द्विसहस्रतः अधिकानां सेवानां माध्यमेन नव-अर्बुदतः (९ बिलियन्) अधिकाः प्रपत्राणि डिजिटल-रूपेण निर्गतानि, यानि अधुना पत्ररहित-उपस्थितिरहित-प्रशासनस्य आधारभूतानि सन्ति।
भारत-कीनिया देशयोः मध्ये ‘डिजी-लॉकर’ सन्धिः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
