एस्टोनिया-देशस्य राष्ट्रपतिना सह राष्ट्रपति-द्रौपदी-मुर्मू-वर्यायाः मेलनम्
एस्टोनिया-देशस्य राष्ट्रपतिः अलार कारिस महोदयः गतदिने नवदेहली-नगरे राष्ट्रपतिना द्रौपदी-मुर्मू-वर्यायाः सह मेलनं कृतवान्। राष्ट्रपति-मुर्मू-वर्या उक्तवती यत् भारत-एस्टोनिया-देशयोः सम्बन्धाः सहयोगात्मक-लोकतान्त्रिक-मूल्यानां, अन्तर्राष्ट्रिय-विधेः (International Law) सम्मानस्य तथा च नियम-आधारित-वैश्विक-व्यवस्थायाः प्रति सहयोगात्मक-प्रतिबद्धतायाः उपरि आधारिताः सन्ति।
राष्ट्रपतिः भारत-यूरोपीय-सङ्घस्य (EU) मुक्त-व्यापार-सन्धेः सफल-समापने एस्टोनिया-देशस्य समर्थनस्य प्रशंसां कृतवती। उभौ एतस्मिन् विषये सहमतौ अभवतां यत् भारत-एस्टोनिया-देशयोः मध्ये द्विपक्षीय-सहयोगं सुदृढं कर्तुं अपाराः सम्भावनाः सन्ति। सा विश्वासं प्रकटितवती यत् एषा यात्रा उभयोः देशयोः द्विपक्षीय-सहयोगे सकारात्मकं गतिं निर्वोढुं सहायिका भविष्यति।
एस्टोनिया-देशस्य राष्ट्रपतिना सह राष्ट्रपति-द्रौपदी-मुर्मू-वर्यायाः मेलनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
