By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः
धर्मसंस्कृतिः

श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः

डॉ.अमनदीप शर्मा
Last updated: 2026/02/19 at 7:57 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीभगवत्कृपाशक्तिः

ईश्वरप्रार्थनायांं विशेषतया कृपाशक्तिः तिष्ठति। मनुष्यस्य अन्तःकरणे स्थितं शोक- चिन्ता- क्लेशादिकं प्रार्थनायाः सत्प्रभावतो दूरं गच्छति। शनैः अन्तःकरणे प्रसन्नता वर्धते, शान्तेरनुभवो भवति। सेवाकार्यादिभावो मनसि उत्पद्यते, तदर्थञ्च प्रेरणा प्राप्यते। जीवने कृतं कर्म सफलतां गच्छति। तस्मात् नियमितरूपेण प्रतिदिनं मनुष्येण भगवत्प्रार्थना कर्तव्या। हे परमसखे! श्रीकृष्ण! हे अच्युत भगवन्! श्रीलक्ष्मीदेव्याः करकमलाभ्यां सेवितस्य भवतः चरणारविन्दस्य शरणं प्रति आगतम् एवं भयङ्करे भवसागरे निमज्जितं मां कृपया उद्धर। त्रिगुणमय्या मायारूपिण्या मृगतृष्णया यस्य बुद्धिः नितरां चापल्यं गतास्ति, यस्य दशेन्द्रियाणि विषयभोगार्थम् उत्कण्ठितानि सन्ति, यो दुष्टमनुष्यैः अपमानितः स्यात्, मृतवत् स्वबुद्ध्याः कारणतो येन भगवच्छरणमपि त्यक्त्वा सांसारिकगुणानां शरणं गृहीतमस्ति, यः सदैव भयभीतः, कामादिषट्शत्रूणां जाले निपतितः ‘त्राहि त्राहि’ इत्युच्चारयन् भ्रममाणः स्यात्, स नान्यः कोऽपि, अपि तु अहमेवास्मि। हे प्रभो! कालिन्द्याः प्राणनाथः त्वमसि, परन्तु तव चरणारविन्दपरागेण सर्वथा शून्यः अस्म्यहम्। मनश्शोकस्य, बुद्धिभ्रमस्य च नाशार्थं समागतः अजन्माः त्वमेव असि। तव मुखकमलस्य दर्शनाभिलाषिणं, लक्ष्म्याः करकमलाभ्यां सेवितस्य तव चरणकमलस्य शरणं प्रति आगतं मां कृपया उद्धर। कालिन्दी, रुक्मिणी, राधा, सत्यभामा, जाम्बवती इत्येतासां सुहृद् त्वमेव असि, एवं स्वशरणागतानां भक्तानामुपरि कृपां कृत्वा तेषां भवभयाद् विमोचकः, वरदः, गोपबालानां प्रियतमः, रासक्रीडायाः अधिनायकः, गोवर्धनधारी, मधुसूदनः, सर्वेश्वरः, अत्यन्तं कमनीयः, गुणाश्रयः इत्यादिभिः नामभिः, नानासद्गुणैश्च त्वं विभूषितोऽसि, त्वां शिरः अवनमय्य अत्यन्तं श्रद्धया प्रणमाम्यहम्। रे मनः! त्वं सर्वदा यज्ञेश्वरस्य श्रीकृष्णस्य हि भजनं कुरु। हे परमसखे! लक्ष्म्याः करकमलद्वारा सेवितस्य तव चरणारविन्दस्य शरणागतं मामुद्धर, इत्येवम् आर्तो भूत्वा, शरणागतः सन्, लगनतया च सततं भगवत्प्रार्थना करणीया मनुष्येण। एवं भावुकतया, प्रेम्णा, गद्गदतया च कृतां प्रार्थनां भगवान् अवश्यं शृणोति इति विश्वासः। प्रार्थनाशक्तेः वशीभूतो वर्तते सः। तस्मात् स्वभक्तानामुपरि स आशिषा अनुगृह्णाति। स आशीर्वादो हि प्रार्थनाशक्तितः प्राप्तः परिणामभूतो विषयः। तस्माद् भगवत्कृपाशक्तिः अनुपमा, अनिर्वचनीया चेति, शुभमस्तु।

नारदोपाध्यायः, असमप्रदेशः।

You Might Also Like

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा

श्रीरामो विजयते-वाल्मीकिरामायणस्य अयोध्याकाण्डसमीक्षा

मुक्तिनाथ-क्षेत्रस्य महत्त्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article ​पञ्जाब-विश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीय-संस्कृत-शिक्षण-कार्यशालायाः आयोजनम्
Next Article बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?