By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > शिक्षावार्ता: > बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)
शिक्षावार्ता:विचारविमर्शः

बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)

डॉ.अमनदीप शर्मा
Last updated: 2026/02/19 at 8:11 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

बालानां परीक्षाकाले अवसादसमस्या : समाधानानि च(परीक्षाविशेष:)
डॉ विमलेश झा, डीएवी पब्लिक स्कूल, बरारी , भागलपुर, बिहार
मानवजीवने शिक्षा परमं साधनं मन्यते। शिक्षया एव बालकः ज्ञानं, विवेकं, संस्कारान्, जीवनकौशलानि च अधिगच्छति। परन्तु आधुनिककाले शिक्षा यत्र बालविकासस्य साधनं भवितव्यम्, तत्र सा परीक्षाकेन्द्रिता, अङ्कप्रधाना च जाता अस्ति। अस्याः प्रवृत्तेः सर्वाधिकं दुष्परिणामं बालानां मनसि दृश्यते। विशेषतः परीक्षाकाले बालानां मनसि यः तीव्रः मानसिककष्ट:, चिन्ता, भयः, निराशा च जायते, सः अवसादसमस्यां जनयति।
अवसादः केवलं मानसिकदुर्बलता न, अपि तु गम्भीरः मानसिकः विकारः अस्ति, यः बालस्य चिन्तनं, भावनां, आचरणं, जीवनदृष्टिं च नकारात्मकरूपेण परिवर्तयति। परीक्षाकाले एषा समस्या तीव्रतररूपेण प्रकटिता भवति , यतः बालाः भविष्यस्य सम्पूर्णभारं परीक्षाफलेन सह सम्बद्धं मन्यन्ते। अतः “बालानां परीक्षाकाले अवसादसमस्या” इति विषयः अधुना शिक्षाक्षेत्रे, सामाजिकक्षेत्रे च अत्यन्तं चिन्ताजनकः जातः अस्ति।
अवसादः नाम तादृशी मानसिकी अवस्था वर्तते या निरन्तरं दुःखभावं, आशाहीनतां, आत्मग्लानिं, रुचिहानिं, उत्साहाभावं च उत्पादयति। सामान्यदुःखात् अवसादः भिन्नः अस्ति, यतः एष: दीर्घकालं स्थायीरूपेण मनसि वर्तते। बालानां परीक्षाकाले अवसादः निम्नलक्षणैः प्रकटितो भवति—
निरन्तरं भययुक्ता चिन्ता,आत्मविश्वासस्य तीव्रः क्षयः,“अहं असमर्थः अस्मि” इति भावना,अध्ययनविषये अरुचिः,अनिद्रा अथवा अतिनिद्रा,एकाकीभावः,जीवनविषये निराशा इत्यादीनि लक्षणानि यदि दीर्घकालं यावत् वर्तन्ते, तर्हि बालस्य मानसिकं स्वास्थ्यं गम्भीरतया प्रभावितं भवति।
परीक्षाकाले अवसादसमस्यायाः कारणानि
1.अङ्कप्रधानशिक्षापद्धतिः-
आधुनिकशिक्षाव्यवस्थायां बालस्य सम्पूर्णमूल्यांकनं अङ्कैः एव क्रियते। “अधिकाङ्काः = सफलजीवनम्” इति मिथ्याधारणा समाजे स्थापिताऽस्ति। अस्याः कारणात् परीक्षाकाले बालाः अत्यधिकं मानसिककष्टम् अनुभवन्ति, यः शनैः शनैः अवसादरूपेण परिवर्तते।
2. अभिभावकानां अतिरिक्ता अपेक्षाः-
बहवः अभिभावकाः स्वकीयाः अपूर्णाः स्वप्नाः बालानां माध्यमेन पूरयितुं प्रयतन्ते। “त्वया प्रथमस्थानम् एव भवितव्यम्”, “नवति प्रतिशतं अपेक्षितम्” इत्यादीनि वाक्यानि बालमनसि गम्भीरं भयम् उत्पादयन्ति। अपेक्षानां पूर्त्यभावे बालः स्वं दोषी मन्यते, येन अवसादः उत्पद्यते।
3. सामाजिकतुलना तथा प्रतिस्पर्धा-
समाजे, विद्यालये, परिवारमध्ये च बालानां निरन्तरं तुलना क्रियते। “अमुकः अधिकाङ्कान् प्राप्नोत्”, “त्वं किमर्थं न्यूनाङ्कान् प्राप्नोसि?” इत्यादयः प्रश्नाः बालस्य आत्मसम्मानं नाशयन्ति। परीक्षाकाले एषा तुलना अधिकतीव्रा भवति।
4. परीक्षाभयम् असफलताभयं च-
परीक्षा केवलं ज्ञानपरीक्षणं न भवति, अपि तु बालानां दृष्ट्या जीवनस्य निर्णायकपरीक्षा इव भवति। असफलताभयः बालान् निरन्तरं पीडयति। “यदि अहं असफलो भविष्यामि, तर्हि मम जीवनं नष्टं भविष्यति” इति चिन्ता अवसादस्य मूलं भवति।
5. विश्रान्तेः क्रीडायाः च अभावः-
परीक्षाकाले बालाः दीर्घकालं पुस्तकेषु निमग्नाः भवन्ति। क्रीडा, मनोरञ्जनं, मित्रसंवादः, स्वच्छन्दचिन्तनं च सर्वं त्यक्तं भवति। एतेषां अभावः मानसिकसन्तुलनं भङ्क्त्वा अवसादं जनयति।
6. शिक्षकाणां कठोरवृत्तिः-
केषुचित् विद्यालयेषु शिक्षकाः परिणामप्रधानदृष्ट्या बालान् अनुशासयन्ति। भयप्रदर्शनं, दण्डः, निरन्तरपरीक्षाः च बालानां मानसिककष्टं वर्धयन्ति।
परीक्षाकाले अवसादसमस्यायाः दुष्परिणामाः
1. मानसिकस्वास्थ्यस्य गम्भीरा हानिः-
अवसादग्रस्तः बालः निरन्तरं दुःखी, निराशः, भयभीतः च भवति। सः न आत्मानं, न जीवनं, न भविष्यं सकारात्मकदृष्ट्या पश्यति।
2. अध्ययनक्षमतायाः ह्रासः-
यस्य बालस्य मनः अवसादेन ग्रस्तं भवति, सः अध्ययनं कर्तुं समर्थः न भवति। एकाग्रता नश्यति, स्मरणशक्तिः क्षीयते।
3. आत्मविश्वासस्य पूर्णनाशः-
परीक्षाकाले अवसादः बालान् आत्महीनतां नयति। तस्य मनसि स्वस्य अयोग्यताया:, असफलताया:, निरर्थकताया:च कृते धारणा च आगच्छति।
4. शारीरिकस्वास्थ्ये प्रभावः
मानसिकावसादः- शारीरिकरूपेण अपि प्रकटितो भवति। शिरःशूलः, उदरव्यथा, श्रमव्यथा, अनिद्रा, अजीर्णता इत्यादयः समस्याः जायन्ते।
5. जीवनविषये नकारात्मकभावना-
केचन बालाः अवसादस्य तीव्रतया जीवनं भाररूपेण अनुभवन्ति। एषा अवस्था समाजाय अत्यन्तं चिन्ताजनका अस्ति।
परीक्षाकाले अवसादसमस्यायाः समाधानानि
1. शिक्षाव्यवस्थायाः मानवीकरणम्-
शिक्षा भयस्य कारणं न, अपि तु आनन्दस्य साधनं भवेत्। परीक्षा केवलं एकं मूल्यांकनसाधनं भवतु, न जीवननिर्णायकं माध्यमम् भवतु।
2. अभिभावकानां सहानुभूतिपूर्णा भूमिका-
अभिभावकैः बालानां भावनाः अवगन्तव्याः। अङ्कानाम् अपेक्षया प्रयासस्य, परिश्रमस्य च प्रशंसा करणीया। असफलता अपि शिक्षायाः भागः इति बालान् बोधयितव्यम्।
3. शिक्षकाणां प्रेरणादायिनी वृत्तिः
शिक्षकाः भयस्य कारणं न भवेयुः। ते स्नेहपूर्णा:, सहायकाः, मार्गदर्शकाः च भूत्वा बालानां आत्मविश्वासं वर्धयेयुः।
4.मानसिकस्वास्थ्यशिक्षायाः समावेशः-
विद्यालयेषु मानसिकस्वास्थ्यविषये जागरूकता आवश्यकं भवति। परामर्शदातृव्यवस्था, योगः, ध्यानम्, प्राणायामः च एते परीक्षाकाले अत्यन्तोपयोगिनः सन्ति।
5. समयसन्तुलनम्-
अध्ययनेन सह क्रीडा, विश्रान्तिः, मनोरञ्जनं च आवश्यकं भवति। संतुलितजीवनशैली अवसादं निवारयति।
6. समाजस्य दृष्टिकोणपरिवर्तनम्-
समाजेन अङ्कपूजां त्यक्त्वा व्यक्तित्वविकास: सम्माननीय:। सर्वे बालाः समानाः न भवन्ति। एतत् सत्यं सर्वै: स्वीकरणीयः।
बालानां जीवनं कोमलं, भावुकं, आशापूर्णं च भवति। परीक्षाकाले उत्पन्नः अवसादः तस्य कोमलतां नाशयति। शिक्षा यदि भययुक्ता भविष्यति, तर्हि सा बालविनाशस्य कारणं भविष्यति। अतः अभिभावकाः, शिक्षकाः, शिक्षाप्रशासनं, समाजः च संयुक्तरूपेण प्रयासं कुर्वन्तु, येन बालाः परीक्षाकाले अवसादमुक्ताः भूत्वा आत्मविश्वासेन जीवनपथे अग्रसराः भवितुं शक्नुवन्ति।
न अङ्काः, न परीक्षा अपि तु बालस्य मानसिकस्वास्थ्यं, आनन्दः,सर्वाङ्गीणविकासः एव शिक्षायाः परमलक्ष्यं भवेत्।

डॉ विमलेश झा, डीएवी पब्लिक स्कूल, बरारी , भागलपुर, बिहार

You Might Also Like

महात्मानारायणदासग्रोवरमहोदयस्य व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

अद्यतनं कलहान्वितं विश्वम् -नारदोपाध्यायः

‘Valentine’s Day’ प्रेमदिवसः- डॉ. वर्षा प्रकाश टोणगांवकर

“सर्वकारः शिक्षाक्षेत्रे कृत्रिमप्रज्ञायाः (AI) प्रयोगं प्रोत्साहयति: शिक्षामन्त्री धर्मेन्द्रप्रधानः”

NEP 2020 सर्वकारस्य २०३० पर्यन्तं विद्यालयेषु शत-प्रतिशतं नामांकनस्य लक्ष्यम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः
Next Article पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?