By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शीतकालाय विधिवत् पिहितानि श्रीकेदारनाथधाम्नः कपाटानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > शीतकालाय विधिवत् पिहितानि श्रीकेदारनाथधाम्नः कपाटानि
धर्मसंस्कृतिःराष्ट्रीयवार्ताः

शीतकालाय विधिवत् पिहितानि श्रीकेदारनाथधाम्नः कपाटानि

डॉ.अमनदीप शर्मा
Last updated: 2026/11/12 at 7:42 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

शीतकालाय विधिवत् पिहितानि श्रीकेदारनाथधाम्नः कपाटानि; शीतकालीन-गद्दीस्थलं प्रति प्रस्थिता भगवतः पञ्चमुखी डोली
देहरादूनम्उत्तराखण्डराज्यस्य रुद्रप्रयाग-जनपदस्य उच्च-हिमाच्छादित-पर्वतशृङ्खलासु स्थितस्य विश्वप्रसिद्धस्य एकादश-ज्योतिर्लिङ्गस्य श्रीकेदारनाथधाम्नः कपाटानि बुधवासरे प्रातः सार्धाष्टवादने (८:३० वादने) पूर्वपरम्परानुसारं भ्रातृद्वितीयायाः (भैयादूज) अवसरे विधि-विधानेन मन्त्रोच्चारणेन च सह शीतकालाय पिहितानि (बन्द) अभवन्। अस्मिन् मङ्गलमये अवसरे श्रीबदरीनाथ-केदारनाथ-मन्दिर-समितेः (बी.के.टी.सी.) अध्यक्षः श्रीहेमन्तद्विवेदीमहोदयः तथा च पञ्चसहस्राधिकाः श्रद्धालवः कपाटपिधानस्य साक्षिणः अभवन्। उल्लेखनीयम् अस्ति यत् अस्मिन् यात्रावर्षे अद्यावधि ऐतिहासिकया सङ्ख्यया सार्धैकोनविंशति-लक्षं (१९.५० लाख) तीर्थयात्रिभिः श्रीकेदारनाथधाम्नः दर्शनं कृतम् अस्ति।कपाटपिधानस्य अवसरे श्रीमन्दिरं विविधैः पुष्पैः अलङ्कृतम् आसीत्। दानदातृभिः तथा च भारतीय-तिब्बत-सीमा-पुलिस-बलेन (आई.टी.बी.पी.) श्रद्धालुभ्यः भण्डाराणां (अन्नक्षेत्राणां) आयोजनं कृतम्। विगतदिनेषु समीपस्थेषु पर्वतेषु हिमपातकारणात् श्रीकेदारनाथे शीतं प्रवर्तते। अद्यैव भगवतः केदारनाथस्य चल-विग्रह-पञ्चमुखी-डोली सेनायाः वाद्यवृन्दस्य भक्तिमयीभिः ध्वनिभिः समारोहपूर्वकं ‘जय श्री केदार’ इति उद्घोषैः सह प्रथमविश्रामस्थलं रामपुरं प्रति प्रस्थिता अभवत्।
प्रमुखाः बिन्दवः –
पञ्चमुखी-डोल्याः यात्राक्रमः: बी.के.टी.सी.-मीडिया-प्रभारी डॉ. हरीशगौड़महोदयेन सूचितं यत् १२ नवम्बर दिनाङ्के गुरुवासरे पञ्चमुखी-डोली विश्वनाथमन्दिरं गुप्तकाशीं प्राप्स्यति तथा च १३ नवम्बर दिनाङ्के शुक्रवासरे शीतकालीन-गद्दीस्थलं श्रीओंकारेश्वरमन्दिरम् उखीमठं प्राप्स्यति। तेन उक्तं यत् कपाटपिधानप्रक्रियायाः अन्तर्गतं विगतशनिवासरे ७ नवम्बर दिनाङ्के भगवतः केदारनाथस्य रक्षकस्य श्रीभकुण्टभैरवनाथस्य कपाटानि शीतकालाय पिहितानि अभवन्।
कपाटपिधानस्य धार्मिकप्रक्रिया: भ्रातृद्वितीयायाः अवसरे श्रीकेदारनाथमन्दिरं प्रातः सार्धत्रिवादने (३:३० वादने) श्रद्धालुनां दर्शनार्थम् उद्घाटितम्। पञ्चवादने कपाटपिधानस्य प्रक्रिया आरब्धा। अर्चकेन टी. गङ्गाधरलिङ्गमहोदयेन धर्माधिकारिणाम् आचार्य-वेदपाठिनाम् उपस्थितौ भगवतः केदारनाथस्य स्वयम्भू-शिवलिङ्गाय शृङ्गाररूपात् समाधिरूपं प्रदत्तम्। स्थानीयपुष्पैः ब्रह्मकमलैः भस्मना च शिवलिङ्गम् आच्छादितम्। तदनन्तरं गर्भगृहस्य कपाटानि पिहितानि अभवन् तथा च भगवतः पञ्चमुखी-डोली सभामण्डपात् बहिः मन्दिरपरिसरम् आगता। अस्मिन् अवसरे सम्पूर्णः मन्दिरपरिसरः ‘जय श्री केदार’ ‘ॐ नमः शिवाय’ इति उद्घोषैः गुञ्जितः अभवत्। सार्धाष्टवादने मुख्यमन्दिरस्य कपाटानि पिहितानि जातानि।
प्रमुखोपस्थितिः: अस्मिन् अवसरे बी.के.टी.सी.-उपाध्यक्षः विजयकप्रवाणः, जिलाधिकारी विशालमिश्रः, सदस्याः महेन्द्रशर्मा, देवीप्रसाददेवली, नीलमपुरी, प्रह्लादपुष्पवाणः, डॉ. विनीतपोस्ती, केदारसभा-अध्यक्षः राजकुमारतिवारी, मुख्यकार्याधिकारी सोहनसिंहराङ्गड़ः, मुख्यप्रभारी-अधिकारी विपिनतिवारी, मुख्यप्रशासनिक-अधिकारी डी.एस. भुजवाणः सहितं जिलाप्रशासनस्य, आरक्षिबलस्य, आई.टी.बी.पी., एस.डी.आर.एफ. इत्यादीनाम् अधिकारिणः सैनिकाः च उपस्थिताः आसन्।

You Might Also Like

औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगाय संयुक्तप्रौद्योगिक्याः विकासे भारत-नॉर्वे-देशयोः मध्ये संवादः

कुलगाम-जनपदे सुरक्षाबलेषु आतंकवादिनाम् आक्रमणम्; केन्द्रीय-आरक्षि-बलस्य द्वौ सैनिकौ आहतौ

फारस-खातिकायां तैलवाहक-पोते प्रक्षेपास्त्रेण आक्रमणम्; एकः भारतीयः नाविकः आहतः, सर्वे अन्ये सुरक्षिताः

नोएडा-ग्रेटरनोएडा-नगरयोः मध्ये ‘एक्वा लाईन’ मेट्रो-परियोजनायाः विस्ताराय केन्द्रीयमन्त्रिमण्डलस्य स्वीकृतिः

जनहिते सर्वकारीय-कर्मचारिणाम् अनिवार्य-सेवानिवृत्तेः विषये सर्वकारस्य व्यापकः अधिकारः अस्ति – सर्वोच्चन्यायालयः

TAGGED: श्रीकेदारनाथ
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article औद्योगिक-निर्माण-अपशिष्टानां पुनः उपयोगाय संयुक्तप्रौद्योगिक्याः विकासे भारत-नॉर्वे-देशयोः मध्ये संवादः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?