HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता:
कुत्र अभवत् हिमस्खलनम् ❓

हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे मङ्गलवासररात्रौ जातेन प्रचण्ड-हिमपातेन अधोक्षेत्रेषु च वर्षया राज्यस्य बहुषु भागेषु यातायात- विद्युत्- जलापूर्तयः स्थगिताः अभवन्, येन जनजीवनं पूर्णतः अस्तव्यस्तं जातम्। हिमस्य सञ्चयेन घर्षणन्यूनतया (Slippage) च अनेके प्रमुखाः मार्गाः बद्धाः सन्ति। शिमला-रामपुर राष्ट्रियमार्गः कुफरी-फागू-नारकण्डा समीपे अवरुद्धः अस्ति। ठियोग-रोहडू मार्गः खड़ापत्थर क्षेत्रे, ठियोग-चौपाल मार्गश्च ‘खिड़की’ समीपे आवागमनाय पिहितः वर्तते।
अधिकारिणां मते, केवलं शिमला-जनपदे एव ९३ सम्पर्कमार्गाः ६ प्रमुखाः मार्गाः च अवरुद्धाः सन्ति। सम्पूर्णराज्ये ३,२०० तः अधिकाः विद्युत्- परिवर्तकाः (Transformers) दोषपूर्णाः अभवन्, येषु १५०० तः अधिकाः विगत- षड्दिनेभ्यः बद्धाः सन्ति। चम्बा, कुल्लू, लाहौलस्पीति:, ऊपरि-शिमला क्षेत्रस्य शताधिकेभ्यः ग्रामेभ्यः विद्युत्-आपूर्ति: विच्छिन्ना जाता। लाहौलस्पीति, किन्नौर, चम्बाजनपदस्य च पाङ्गी सदृशेषु उच्चक्षेत्रेषु जलभण्डारणकोषा: (Water tanks) हिमायिताः जाताः, येन गृह- जलपूर्तिः पूर्णतः बाधिता अस्ति। हिमपातानन्तरं तापमाने तीव्रगत्या ह्रासः जातः। ऊनानगरे तापमानं सामान्यात् ९ अंशा: न्यूनं (१२.८°C) अङ्कितम्। मण्डी, सुन्दरनगरं, सोलनं च अतीव शीतलानि सन्ति। शिमला-पुलिसदलेन जनेभ्यः स्खलनयुक्तेषु मार्गेषु, विशेषतः शिमला-चौपाल तथा शिमला-रोहडू मार्गेषु यात्रां न कर्तुं परामर्शः दत्तः। मनाली-क्षेत्रे मङ्गलवासररात्रौ एकं कारयानं हिमयुक्ते मार्गे ३६० डिग्री कोणेन भ्रमितं, परन्तु सुदैवेन कोऽपि हतः न जातः। जनजातीयक्षेत्रेषु केचन विद्यालयाः सुरक्षादृष्ट्या बद्धाः सन्ति। ऋतुविज्ञानविभागानुसारम् आगामि-दिनद्वयं यावत् राज्ये प्रचण्ड-शीतलहरी स्थास्यति।
भरमौरस्य ‘पुलन’ पञ्चायते भीषण-हिमस्खलनम्; द्वे वाहने त्रीणि आपणानि च प्रभावितानि

हिमसंस्कृतवार्ता:- चम्बा।
हिमाचलप्रदेशस्य चम्बाजनपदस्य भरमौरक्षेत्रे अर्धरात्रौ जातस्य भीषण- हिमस्खलनस्य (Avalanche) कारणेन महती क्षतिः जाता। अनेन लाहौल- स्पीति- जनपदस्य कश्चन विशालः भागः मार्ग-सम्पर्कात् पूर्णतः विच्छिन्नः जातः। प्राप्त-सूचनया ज्ञातं भवति यत् भरमौरस्य पुलन-पञ्चायते ‘ऑट नाला’ इत्यत्र मङ्गलवासररात्रौ एकः विशालः हिमनदः (Glacier) पतितः, येन आकस्मिकं हिमस्खलनं सञ्जातम्।अस्मिन् हिमस्खलने द्वे ‘पिक-अप’ वाहने प्रवह्य गभीरे गर्तक्षेत्रे पतिते, ययोः अद्यापि किमपि ज्ञानं न प्राप्तम्। अपि च, स्थानीयनिवासिन्याः घडलो देव्याः त्रीणि आपणानि (Shops) अपि ध्वस्तानि जातानि। पञ्चायत-प्रधाना अनीताकपूर घटनायाः पुष्टिं कृतवती। ग्रामिणानां मते विगत-पञ्चाशत्-वर्षेषु एषा भीषणतमा घटना अस्ति।
लाहौल-स्पीति-जनपदस्य स्थिति-विवरणम्
पार्श्ववर्ति- जनपदस्य लाहौल-स्पीति इत्यस्य आपदा- प्रबन्धन- प्रतिवेदनानुसारं स्थितिः एवमस्ति-
मार्गावरोधः- लोकनिर्माणविभागस्य २७५ मार्गाः विविध- उपमण्डलेषु अवरुद्धाः सन्ति।
राष्ट्रियमार्गाः- ग्रांफूतः लोसर (NH-505) तथा दारचातः सरचू (NH-03) इति मार्गद्वयं २०२५ तः एव शीतकालीन-प्रतिबन्धेन पिहितं वर्तते।
अवरुद्धाः प्रमुखाः मार्गाः-
कोकसर-रोहताङ्ग-पास, ग्रांफू-बातल मार्गाः पूर्णतः बद्धाः सन्ति।
सम्प्रति केवलं एटीआर (ATR) नॉर्थ पोर्टल तः दारचा पर्यन्तं तथा सुमदोतः लोसर पर्यन्तं मार्गाः अतीव संकटपूर्णस्थितौ उद्धाटिताः सन्ति। अत्र केवलं ‘स्नो-चेन’ (Snow-chain) युक्त-वाहनानां (4×4) कृते एव अनुमतिः दत्ता अस्ति। सुप्रदं वर्तते यत् लाहौल-स्पीति-क्षेत्रे जल- विद्युत्- आपूर्तौ किमपि विघ्नं न जातमस्ति।
