By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 
हिमाचलवार्ता

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

डॉ मनोज शैल
Last updated: 2026/01/29 at 10:53 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

कुत्र अभवत् हिमस्खलनम् ❓

हिमसंस्कृतवार्ता:- शिमला।

हिमाचलप्रदेशे मङ्गलवासररात्रौ जातेन प्रचण्ड-हिमपातेन अधोक्षेत्रेषु च वर्षया राज्यस्य बहुषु भागेषु यातायात- विद्युत्- जलापूर्तयः स्थगिताः अभवन्, येन जनजीवनं पूर्णतः अस्तव्यस्तं जातम्। हिमस्य सञ्चयेन घर्षणन्यूनतया (Slippage) च अनेके प्रमुखाः मार्गाः बद्धाः सन्ति। शिमला-रामपुर राष्ट्रियमार्गः कुफरी-फागू-नारकण्डा समीपे अवरुद्धः अस्ति। ठियोग-रोहडू मार्गः खड़ापत्थर क्षेत्रे, ठियोग-चौपाल मार्गश्च ‘खिड़की’ समीपे आवागमनाय पिहितः वर्तते।

अधिकारिणां मते, केवलं शिमला-जनपदे एव ९३ सम्पर्कमार्गाः ६ प्रमुखाः मार्गाः च अवरुद्धाः सन्ति। सम्पूर्णराज्ये ३,२०० तः अधिकाः विद्युत्- परिवर्तकाः (Transformers) दोषपूर्णाः अभवन्, येषु १५०० तः अधिकाः विगत- षड्दिनेभ्यः बद्धाः सन्ति। चम्बा, कुल्लू, लाहौलस्पीति:, ऊपरि-शिमला क्षेत्रस्य शताधिकेभ्यः ग्रामेभ्यः विद्युत्-आपूर्ति: विच्छिन्ना जाता। लाहौलस्पीति, किन्नौर, चम्बाजनपदस्य च पाङ्गी सदृशेषु उच्चक्षेत्रेषु जलभण्डारणकोषा: (Water tanks) हिमायिताः जाताः, येन गृह- जलपूर्तिः पूर्णतः बाधिता अस्ति। हिमपातानन्तरं तापमाने तीव्रगत्या ह्रासः जातः। ऊनानगरे तापमानं सामान्यात् ९ अंशा: न्यूनं (१२.८°C) अङ्कितम्। मण्डी, सुन्दरनगरं, सोलनं च अतीव शीतलानि सन्ति। शिमला-पुलिसदलेन जनेभ्यः स्खलनयुक्तेषु मार्गेषु, विशेषतः शिमला-चौपाल तथा शिमला-रोहडू मार्गेषु यात्रां न कर्तुं परामर्शः दत्तः। मनाली-क्षेत्रे मङ्गलवासररात्रौ एकं कारयानं हिमयुक्ते मार्गे ३६० डिग्री कोणेन भ्रमितं, परन्तु सुदैवेन कोऽपि हतः न जातः। जनजातीयक्षेत्रेषु केचन विद्यालयाः सुरक्षादृष्ट्या बद्धाः सन्ति। ऋतुविज्ञानविभागानुसारम् आगामि-दिनद्वयं यावत् राज्ये प्रचण्ड-शीतलहरी स्थास्यति।

 

भरमौरस्य ‘पुलन’ पञ्चायते भीषण-हिमस्खलनम्; द्वे वाहने त्रीणि आपणानि च प्रभावितानि 

हिमसंस्कृतवार्ता:- चम्बा।

हिमाचलप्रदेशस्य चम्बाजनपदस्य भरमौरक्षेत्रे अर्धरात्रौ जातस्य भीषण- हिमस्खलनस्य (Avalanche) कारणेन महती क्षतिः जाता। अनेन लाहौल- स्पीति- जनपदस्य कश्चन विशालः भागः मार्ग-सम्पर्कात् पूर्णतः विच्छिन्नः जातः। प्राप्त-सूचनया ज्ञातं भवति यत् भरमौरस्य पुलन-पञ्चायते ‘ऑट नाला’ इत्यत्र मङ्गलवासररात्रौ एकः विशालः हिमनदः (Glacier) पतितः, येन आकस्मिकं हिमस्खलनं सञ्जातम्।अस्मिन् हिमस्खलने द्वे ‘पिक-अप’ वाहने प्रवह्य गभीरे गर्तक्षेत्रे पतिते, ययोः अद्यापि किमपि ज्ञानं न प्राप्तम्। अपि च, स्थानीयनिवासिन्याः घडलो देव्याः त्रीणि आपणानि (Shops) अपि ध्वस्तानि जातानि। पञ्चायत-प्रधाना अनीताकपूर घटनायाः पुष्टिं कृतवती। ग्रामिणानां मते विगत-पञ्चाशत्-वर्षेषु एषा भीषणतमा घटना अस्ति।

लाहौल-स्पीति-जनपदस्य स्थिति-विवरणम् 

पार्श्ववर्ति- जनपदस्य लाहौल-स्पीति इत्यस्य आपदा- प्रबन्धन- प्रतिवेदनानुसारं स्थितिः एवमस्ति-

मार्गावरोधः- लोकनिर्माणविभागस्य २७५ मार्गाः विविध- उपमण्डलेषु अवरुद्धाः सन्ति।

राष्ट्रियमार्गाः- ग्रांफूतः लोसर (NH-505) तथा दारचातः सरचू (NH-03) इति मार्गद्वयं २०२५ तः एव शीतकालीन-प्रतिबन्धेन पिहितं वर्तते।

अवरुद्धाः प्रमुखाः मार्गाः-

कोकसर-रोहताङ्ग-पास, ग्रांफू-बातल मार्गाः पूर्णतः बद्धाः सन्ति।

सम्प्रति केवलं एटीआर (ATR) नॉर्थ पोर्टल तः दारचा पर्यन्तं तथा सुमदोतः लोसर पर्यन्तं मार्गाः अतीव संकटपूर्णस्थितौ उद्धाटिताः सन्ति। अत्र केवलं ‘स्नो-चेन’ (Snow-chain) युक्त-वाहनानां (4×4) कृते एव अनुमतिः दत्ता अस्ति। सुप्रदं वर्तते यत् लाहौल-स्पीति-क्षेत्रे जल- विद्युत्- आपूर्तौ किमपि विघ्नं न जातमस्ति।

 

You Might Also Like

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

जयरामठाकुरः अवदत्- मुख्यमन्त्री कथयेत्, उपमुख्यमन्त्रिणः विरुद्धं कीदृशान्वेषणं (Investigation) प्रचलति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति
Next Article सूर्य: अस्तं गच्छति, वयम् अपि वा?।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?