भारतं यूरोपीयसङ्घ च ऐतिहासिकं मुक्तव्यापारसमन्वयं निश्चितं कृतवन्तौ।
हिमसंस्कृतवार्ता: – भारतं यूरोपीयसंघ: च ऐतिहासिकं मुक्तव्यापारसमन्वयं निश्चितं कृतवन्तौ। नवदिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी, यूरोपीयपरिषदः अध्यक्षः एन्टोनियो कोस्टा इत्येषः यूरोपीय-आयोगस्य अध्यक्षा उर्सुला फॉन डेर लायन इत्येषा प्रतिनिधिस्तरीय वार्तायाः अनन्तरं सन्धिपत्रेषु हस्ताक्षराणि कृतवन्तः। भारत-यूरोपीय-सङ्घयोःमध्ये व्यापार- सुरक्षा-रक्षा-सहभागिता, गतिशीलता-आपत्-संकट-प्रबंधन, हरित-हाइड्रोजन् इत्येतेषां च क्षेत्राणां सप्तसन्धिपत्राणां आदानप्रदानम् अभवत्। प्रधानमन्त्रिणा श्रीमोदिना, यूरोपीय-आयोगस्य अध्यक्षया उर्सुला फॉन डेर लायन इत्यनया च सर्व-व्यवहाराणां जननी इति उक्त्वा सन्धिं प्रशंसितवन्तौ। अस्मिन् अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत्, भारत-यूरोपीयसङ्घयोः सम्बन्धः सुदृढः अभवत्, तेषां सम्बन्धः नूतनम् औन्नत्यं प्राप्नोत्। सः अवदत् यत्, एषा न केवलं व्यापार-सन्धिः, अपितु सहभागी-समृद्धेः नूतनः प्रारूपः अस्ति। प्रधानमन्त्री अवदत् यत्, भारतं सप्तविंशति-राष्ट्राणां यूरोपीयसङ्केन सह बृहत्तमं मुक्तव्यापार-सन्धिं कृतवान् इति। सः अवदत् यत् एतेन निवेशानां वृद्धिः भविष्यति, वैश्विकस्तरे आपूर्तिशृङ्खलाः सुदृढाः भविष्यन्ति ।
भारत-यूरोपीय-सङ्घयोः मध्ये व्यापार सुरक्षा-रक्षा-सहभागिता, गतिशीलता-आपत्-संकट-प्रबंधन, हरित-हाइड्रोजन् इत्येतेषां च क्षेत्राणां सप्तसन्धिपत्राणां आदानप्रदानम् अभवत्।
एफ़. टि. ए. इत्यस्य समापनानन्तरं यूरोपीयपरिषदः अध्यक्षः एन्टोनियो कोस्टा, एफ़. टि. ए. इत्यस्य हस्ताक्षरं ऐतिहासिकं क्षणम् इत्यवोचत्। सः अवदत् यत् यूरोपीयसङ्घः, भारतं च नूतनं अध्यायं प्रारब्धवन्तौ। सः अवदत् यत्, यूरोपीयसङ्घः, भारतं च संयुक्त-समृद्धेः सुरक्षायाः च कृते मिलित्वा कार्यं करिष्यतः। अस्मिन् अवसरे सम्बोधयन्ती उर्सुला फॉन डेर लायन इत्येषा प्रधानमन्त्रिणं नरेन्द्रमोदिनं असाधारण-आतिथ्याय धन्यवादं प्रदत्तवती । सा अवोचत् यत्, गणतन्त्रदिवसस्य पथ सञ्चलने मुख्यातिथिः रूपेण भागग्रहणं सम्मानप्रदः अस्ति। सा अवोचत् यत्, भारतम् अग्रे सरति एतत् दृष्टवा यूरोपवर्तिभागः प्रसन्नः अस्ति। सा अवोचत्, यदा भारतं सफलं भवति तदा संसारः अधिकस्थिरः, समृद्धः, सुरक्षितः च भवति।
भारतं यूरोपीयसङ्घ च ऐतिहासिकं मुक्तव्यापारसमन्वयं निश्चितं कृतवन्तौ
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
