भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:
हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:
संस्कृतभारती- हिमाचलप्रदेश- न्यासद्वारा अवस्थीगुरुकुलं नालागढ़म् इत्यत्र आयोजितस्य सोलनविभागस्य भाषाप्रबोधनवर्गस्य समापनसमारोहे मुख्यातिथिरूपेण नालागढविधानसभाया: पूर्वविधायक: के. एल. ठाकुरमहोदयः उपस्थित:। अस्य समारोहस्य अध्यक्षतां संस्थाध्यक्ष: रजत अवस्थी महोदयोऽकरोत्। विशिष्टातिथिरूपेण समाजसेवकः श्रीमान् बलजीतकौशिकमहोदयः आसीत्। संस्कृतभारती हिमाचलप्रदेशस्य प्रान्तमन्त्री डॉ. ज्ञानेश्वरशर्मा मुख्यवक्तृरूपेण समारोहेऽस्मिन्नुपस्थाय कार्यक्रमस्य शोभामवर्धत। कार्यक्रमस्य आरम्भः दीपप्रज्ज्वालनेन सरस्वतीवन्दनया चाभवत्। वर्गस्य शिक्षकेण डॉ. सन्तोषकुमारेणोक्तं यत् अस्य कार्यक्रमस्य सञ्चालनं श्रीमान् यशोमहोदयेन अतिथीनां परिचय: वचस्स्वागतञ्च डॉ. प्रेमचन्दशर्मणा कृतम्। मुख्यातिथिनोक्तं यत् संस्कृतं भारतीयसंस्कृते: मूलमस्ति, अतोऽस्य संरक्षणं संवर्द्धनं चास्माकं दायित्वमस्तीति। स्वभाषणे सभाध्यक्षेण रजत अवस्थीमहोदयेन कथितं यत् संस्कृतमयवातावरणं दृष्ट्वा गीतादीनां च श्रवणेन पवित्रतायाः अनुभवो भवतीति। वर्गस्य वृत्तान्तकथनं मुख्यशिक्षकेण तिलकरामशर्मणा कृतम्। अनुभवकथनं नेहा- अंशुल- कोमलादिभि: वर्गार्थिभि: कृतम्।
डॉ. ज्ञानेश्वरशर्मणा वर्गार्थिनां मार्गदर्शनं कृतम्। वर्गस्य शिक्षकेण राकेशेन धन्यवादज्ञापनं कृतम्। समारोहेऽस्मिन् शिक्षकप्रबन्धकसहिता: आहत्य ११५ वर्गार्थिन: उपस्थिता: आसन्।
भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
