By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पण्डितअटलबिहारीवाजपेयी महोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > पण्डितअटलबिहारीवाजपेयी महोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)
दिवसविशेषः

पण्डितअटलबिहारीवाजपेयी महोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)

डॉ.अमनदीप शर्मा
Last updated: 2025/12/25 at 11:05 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

पण्डितअटलबिहारीवाजपेयीमहोदयस्य व्यक्तित्वं कृतित्वं च(जन्मदिवसविशेष:)
(25/12/1924-16/08/2018)
भारतीयराजनीतिक्षेत्रे ये महापुरुषाः राष्ट्रस्य न केवल नेतृत्वं कृतवन्तः, अपि तु स्वजीवनस्य आदर्शैः, विचारैः, वाणीमाधुर्येण, कवित्वेन च जनमानसस्य उपरि प्रभुत्वं स्थापितवन्तः, तेषु अग्रगण्यः आसीत् स्व०पण्डितअटलबिहारीवाजपेयीमहाशय:। सः राजनीतिज्ञः एव न अपि तु कविः, पत्रकारः, वक्ता, चिन्तकः, राष्ट्रभक्तः च आसीत्। भारतीयलोकतन्त्रस्य इतिहासे सः एकः आदर्शप्रधानमन्त्री: आसीत्। एष: स्वजीवने राष्ट्रहितं सर्वोपरि मत्वा, दलगतभेदान् अतिक्रम्य सर्वेषां सम्मानं प्राप्तवान्।एष: एतादृश: राजनीतिज्ञ: आसीत् यस्य प्रशंसां विपक्षीनेतार: अपि कुर्वन्ति स्म। तस्य व्यक्तित्वे सौम्यता, गाम्भीर्यम्, धैर्यम्, करुणा, राष्ट्रनिष्ठा च अद्भुतरूपेण समन्वितानि आसन्।
एतस्य जन्म 1924 तमे ख्रिष्टाब्दे दिसम्बरमासस्य पंचविशतिदिनांके मध्यप्रदेशस्य ग्वालियरनगरे
पण्डितकृष्णबिहारीवाजपेयी इति पितुः श्रीमतीकृष्णादेवी इति मातुः च गृहे अभवत्। बाल्यकालादेव तस्य बुद्धिः तीक्ष्णा, स्मरणशक्तिः प्रखरा, वाक्शक्ति च प्रभावशालिनी आसीत्। एष: प्रारम्भिकशिक्षां ग्वालियरनगरे एव प्राप्तवान्। तदनन्तरं ग्वालियर-विक्टोरिया-महाविद्यालये अध्ययनं कृत्वा, कानपुरविश्वविद्यालयात् राजनीतिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान्। छात्रावस्थायामेव एष: राष्ट्रीयस्वयंसेवकसंघस्य विचारैः प्रभावितः अभवत्, राष्ट्रसेवायाः दृढसंकल्पं च अकरोत्।
युवावस्थायामेव अयं राष्ट्रसेवायै पत्रकारितां माध्यमेन राष्ट्रवादीविचारान् जनसामान्येषु प्रचारितवान्। सः ‘राष्ट्रधर्म’, ‘पाञ्चजन्य’, ‘वीर अर्जुन’ इत्यादिषु पत्रेषु सम्पादकरूपेण कार्यं कृतवान्। राजनीतौ तस्य प्रवेशः भारतीयजनसंघस्य माध्यमेन अभवत्। डा.श्यामाप्रसादमुखर्जीमहाशस्य एष: अनन्यतम: सहयोगी आसीत्। मुखर्जीमहोदयस्य निधनानन्तरं वाजपेयीमहाशय: जनसंघस्य प्रमुखनेतृत्वं स्वीकृतवान्।अयं
१९५७ तमे ख्रिष्टाब्दे प्रथमवारं लोकसभानिर्वाचने विजयं प्राप्तवान् । ततः सः नववारं लोकसभाया: बारद्वयं राज्यसभाया: च सदस्यः निर्वाचित: अभवत्। तस्मिन् वक्तृत्वक्षमता अद्भुता प्रखरा, विलक्षणशैलीयुक्ता रमणीया च आसीत् । यदा एष: विरोधीदलस्य नेता आसीत् तदा सत्तापक्षेन एतस्य सम्मानं भवति स्म। एतस्य विषये पण्डितजवाहरलालनेहरूमहोदय: अपि एकदा उक्तवान्—“अटलजीमहाशय: भविष्ये भारतस्य प्रधानमन्त्री भविष्यति।” एषा उक्ति तस्य वाणीमाधुर्यस्य, तार्किकशक्तेः, राष्ट्रभक्ते: च प्रमाणम् अस्ति। मोरारजीदेसाईसर्वकारस्य मंत्रिमंडले एष: विदेशमंत्रीरूपेण कार्यं कृत्वा संयुक्त राष्ट्रमहासभायां 1977 तमे वर्षे हिंदीभाषायां सम्बोधनं कृतवान्। एष: राष्ट्रस्य दशम: प्रधानमंत्री आसीत् । एष: महानुभाव: वारत्रयं भारतदेशस्य प्रधानमन्त्री अभवत्। प्रथमबारं द्वितीयबारं च अल्पकालिक:एष: प्रधानमंत्री आसीत् । तृतीयकार्यकाले एतेन स्थिरं, निर्णायकं, विकासोन्मुखं शासनं प्रदत्तम्।
एतस्य एव शासनकाले पोखरणपरमाणुपरीक्षणम्
1998तमे वर्षे सम्पन्नं जातं येन भारतदेश: विश्वमञ्चे परमाणुशक्तिराष्ट्ररूपेण प्रतिष्ठित: अभवत्। इदं परीक्षणं वाजपेयीसर्वकारस्य साहसस्य, राष्ट्रियसुरक्षाप्राथमिकतायाः च द्योतकम् आसीत् । वाजपेयीमहाशय: विदेशनीतौ शान्तेः पक्षधरः आसीत्। एतस्मात् कारणात् लाहौरबसयात्रा ,पाकिस्तानसम्बन्धेषु संवादः,संयुक्तराष्ट्रसंघे भारतस्य सशक्तप्रतिनिधित्वम्
इत्यादीनि कार्याणि कृतानि। यद्यपि भारत-पाकिस्तानयो: मध्ये कारगिलयुद्धम् अभवत्, तथापि एतस्य धैर्येण, रणनीत्या च भारतस्य विजयः सुनिश्चितः अभवत् । एतस्य योगदानं देवस्य आर्थिकविकासेषु आधारभूतसंरचनासु चापि आसीत् यतो हि वाजपेयीशासने एव स्वर्णिमचतुर्भुजपरियोजना, ग्रामसडकयोजना, दूरसञ्चारक्रान्तिः,निजीकरणनीतिःइत्यादयः योजनाः आरब्धाः अभवन् । एतस्य शासने भारतदेशस्य आर्थिकविकासः तीव्रगत्या अभवत्। वाजपेयीमहाशय: सामाजिकसमरसताया: प्रतीक: आसीत् । एष: सदैव समन्वयवादिसिद्धान्तस्य पालनम् अकरोत् । एतस्य ध्यानं धर्मनिरपेक्षताया: लोकतान्त्रिकमूल्यानाम् उपरि च विशिष्टम् आसीत् ।वाजपेयीमहाशय: केवलं राजनीतिज्ञः न, अपि तु संवेदनशीलः कविः आसीत्।तस्य काव्येषु राष्ट्रभक्ति: ,मानवतावादः,करुणा,आशा इत्यादयः भावाः प्रतिफलन्ति।तस्य प्रसिद्धकाव्यपङ्क्तयः—
“हार नहीं मानूँगा, रार नहीं ठानूँगा।”तस्य कवित्वं भावप्रधानं, सरलम्, हृदयस्पर्शि च आसीत्। एतस्य व्यक्तित्वस्य प्रमुखगुणाः वाणीमाधुर्यम् ,राजनीतिकशिष्टाचारः,कर्तव्यनिष्ठा,राष्ट्रभक्ति:,
सहिष्णुता,नैतिकदृढता,नेतृत्वकुशलता,आर्थिकशुचिता इत्यादय: प्रमुखा: आसन्। एष: विरोधिनां कृते अपि सदैव सौजन्यं दर्शितवान्। वाजपेयीमहोदय: भारतरत्नसम्मान(2015),पद्मविभूषण(1992),लोकमान्यतिलकपुरस्कारः(1994),श्रेष्ठसांसदसम्मान (1994)इत्यादिभि:अनेकैः सम्मानैः अलङ्कृतः। स्वजीवनस्य अन्तिमचरणे दीर्घकालं यावत् स्वास्थ्यसमस्याभिः पीडितः भूत्वा 2018तमे ख्रिष्टाब्दे अगस्तमासस्य षोडशतमे दिनांके नवदिल्लीस्थएम्सचिकित्सालये तस्य निधनं अभवत्। एतस्य निधनं सम्पूर्णराष्ट्राय अपूरणीया क्षति: आसीत् ।वाजपेयीमहाभाग: भारतीयराजनीतेः युगपुरुषः आसीत्।
एष: राजनीतौ नैतिकतायाः, लोकतन्त्रस्य, राष्ट्रसेवायाः च जीवितप्रतीकः आसीत्। तस्य जीवनं दर्शयति यत्—
राजनीतिः देशसेवायाः माध्यमं भवितुं शक्नोति।

अद्यापि तस्य विचाराः, आदर्शाः, वाणी च भारतस्य नागरिकान् राष्ट्रसेवायै प्रेरयन्ति। सः न केवलं भूतकालस्य नेता, अपि तु भविष्यस्य मार्गदर्शकः अपि अस्ति। एतस्य विशेषता बिफरे वयं यत्किमपि वदिष्याम: तत् सर्वे अल्पम् एवं भविष्यति , यतो हि एतस्य व्यक्तित्वस्य स्वरूपं विशालतमं वर्त्तते।अत्र अन्ते वयं वक्तुं शक्नुमो यत् यदा यदा भारतदेशस्य इतिहासे आदर्शराजनीते: आदर्शराजनीतिज्ञानां चर्चा भविष्यति तदा तदा जना: स्वर्गीय पण्डित अटल बिहारी वाजपेयीमहाशयानां स्मरणं करिष्यन्ति एव। उक्तं च- स जीवति यशो यस्य कीर्तिर्यस्य स जीवति।अयशोऽकीर्तिसंयुक्तः जीवन्नपि मृतोपमः॥ इत्यलम्।
डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी,भागलपुर, बिहार

You Might Also Like

Kangra News – आदिशक्तिः ज्वाला, जलं, वायुः, प्रलय:, सृष्टिः, धरा चास्ति…. ज्वालामुख्याम् आगन्तुकपुस्तके लिखितः अटलसन्देशः

*सामसीमहाविद्यालये- गीताजयन्तीमहोत्सवः पालितः* 

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

*वंशिपुरकालितलायां विश्वकल्याणयज्ञः सुसम्पन्नः* 

अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः

TAGGED: पण्डितअटलबिहारीवाजपेयी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article डीएवी पुलिस पब्लिक विद्यालयस्य छात्रैः प्रान्तस्तरे पुरस्काराः प्राप्ताः
Next Article शिमला-शीतोत्सवस्य आरम्भः महानाट्यां २०६ महिलाः एकत्र नृत्यं कृतवत्यः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?