शिमला-शीतोत्सवस्य आरम्भः महानाट्यां २०६ महिलाः एकत्र नृत्यं कृतवत्यः, भव्या सांस्कृतिकी शोभायात्रा अपि निर्गता
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, शिमला ।हिमाचलप्रदेशस्य राजधानी शिमलानगरे मालमार्गे बुधवासरे अपराह्ने शीतोत्सवस्य (विंटर कार्निवल) शुभारम्भः महानाट्या तथा सांस्कृतिक-शोभायात्रया कृतः। महिला-शिशु-विकास-विभागेन आयोजितायां अस्यां महानाट्यां द्वयोः खण्डयोः २०६ महिलाः एकत्र नाट्ये लीलया नृत्यं कृतवत्यः। शिमला- नगरीयखण्डात् ८६ महिलाः, मशोबरा-खण्डात् १२० महिलाः अत्र सम्मिलिताः। सर्वाः महिलाः पारम्परिक- वस्त्राणि रेजटा, धाटू च धारयित्वा हिमाचलस्य संस्कृतिं प्रदर्शितवत्यः। अस्मिन् अवसरे स्थानीयजनाः पर्यटकाः चापि उत्साहेन नाटीनृत्ये भागं गृहीतवन्तः।शोभायात्रायां प्रदेशस्य द्वादश-जनपदेभ्यः आगतानि सांस्कृतिकदलानि स्व-स्व-लोकपरम्पराः वेशभूषाः च प्रदर्शयन्तः प्रस्तुतिं कृतवन्तः। तत्र पारम्परिकं ठोडानृत्यं दर्शकानां महतीं प्रशंसां अलभत्। नवदिनपर्यन्तं प्रचलति। अस्मिन् भव्य-उत्सवे देशस्य प्रदेशस्य च ७० कलाकाराः स्व-स्व-प्रस्तुतिभिः सहभागं करिष्यन्ति। संगीत-नृत्य-लोकसंस्कृतेः एषः संगमः द्रष्टुं बहवः पर्यटकाः शिमलां प्राप्तवन्तः। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खूः मुख्यातिथिरूपेण उपस्थितः अभवत् तथा हरितध्वजं दर्शयित्वा शोभायात्रां प्रस्थितवान्। पाण्डालस्य चतुर्दिक्षु अवरोधकाः स्थापयित्वा सुरक्षाव्यवस्था कृताऽस्ति।प्रथमा “स्टार-नाइट” बुधवासरे आयोजिता, यस्यां प्रसिद्धः पञ्जाबीगायकः रोहनप्रीतः सिंहः रात्रौ ८:३० तः १०:०० पर्यन्तं प्रस्तुति: अददत्। तस्मात् पूर्वं रात्रौ ८:१० तः ८:३० पर्यन्तं पञ्जाबी-गायिका पूजा पण्डिता प्रस्तुति: करिष्यति। तत्र पारम्परिक-महानाट्यस्य आयोजनम् अपि भविष्यति, यत्र स्थानीय-जनाः कलाकाराश्च एकत्र नृत्यं कृत्वा हिमाचली-संस्कृतेः दृश्यं प्रदर्शयिष्यन्ति।नगर-निगमस्य महापौरः सुरेन्द्रः चौहानः अवदत् यत् एषः उत्सवः प्रदेशस्य सांस्कृतिक-एकतां विरासतां च दर्शयितुं प्रमुखम् आकर्षणम् भविष्यति। अस्मात् पूर्वं रिज-मैदाने सायं पञ्चवादने सांस्कृतिक-सन्ध्या आरभ्यते, यस्यां सूफी, पहाड़ी, कांगड़ी तथा पञ्जाबी कलाकाराः स्व-स्व-प्रस्तुतिभिः वातावरणं रमणीयं करिष्यन्ति।
बालकानां कृते विशेषव्यवस्था
शीतोत्सवे अस्मिन् वर्षे बालकानां कृते विशेष-व्यवस्था कृताऽस्ति। रानीझांसी उद्याने बालकानां कृते क्रीडनकरेलयानं स्थापितम् अस्ति, यत्र बालकाः रेलयान-यात्रायाः आनन्दं लभन्ते। महापौरः सुरेन्द्रः चौहानः अपि अवदत् यत् अत्र महिलानां कृते विक्रयस्थलानि (स्टॉल) स्थापितानि सन्ति, यत्र पर्यटकाः आगत्य सीड्डू, मालपुए अन्यानि वस्तूनि च क्रेतुं शक्नुवन्ति। अतः परं रिज-प्राङ्गणे खाद्य- वस्त्र- आदि- विक्रयस्थलेषु अपि जनानां महान् सम्मर्द: दृश्यते।
शिमला-शीतोत्सवस्य आरम्भः महानाट्यां २०६ महिलाः एकत्र नृत्यं कृतवत्यः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
