मणिपुरस्य राधामाधवादर्शसंस्कृतमहाविद्यालये शास्त्राभ्यासकार्यशाला
हिमसंस्कृतवार्ता। केन्द्रीयसंस्कृतविश्वविद्यालयस्य आदर्शयोजनान्तर्गते राधामाधवादर्शसंस्कृतमहाविद्यालये अष्टदिवसीया शास्त्राभ्यासकार्यशाला 23.12.2025 दिनाङ्के समुद्घाटिता। सोमनाथसंस्कृतविश्वविद्यालयस्य मान्याः कुलपतयः आचार्याः सुकान्तसेनापतिमहोदयाः भारतीयदर्शनस्य वैशिष्ट्यं समुद्घाटितवन्तः। राधामाधवदर्शमहाविद्यालयस्य शैक्षणिककार्यक्रमान् बहुमानेन प्रशस्य पूर्वोत्तरभारते संस्कृतशास्त्रसमृद्धिं प्राकाशयन्।प्रस्थानत्रयीभाष्यकाराः स्वामिभद्रेशदासमहोदयाः बीजभाषणे सांख्यदर्शनस्य महतीं परम्परां स्मारयामासुः। आदर्शप्रभारी आचार्यकुलदीपशर्माणः शास्त्राभ्यासादिकार्यक्रमेण अध्यापकानां छात्राणां च महान् उपकारो भवतीति उक्तवन्तः।राधामाधवादर्शमहाविद्यालयस्य विविधानां कार्यक्रमाणां प्रशंसां विधाय नवनियुक्तप्रचार्यस्य स्वागतं चक्रुः। परिचालनसमितेः अध्यक्षा आचार्या सुदेष्णाभट्टाचार्या साभापत्यं व्याजहार।संयोजकः आदित्यनारायणदाशः धन्यवादं प्रायच्छत्।आस्यां कार्यशालायां 160 अध्यापकाः,गवेषकाः छात्राश्च सांख्यकारिकां सभाष्यं पठिष्यन्ति।तिरुपति-सोमनाथ-वेलूड-जगन्नाथसंस्कृतविश्वविद्यालयस्य विषयविशेषज्ञाः अध्यापयिष्यन्तीति प्राचार्या बुद्धेश्वरषडङ्गिनः समुदघोषयन्।
मणिपुरस्य राधामाधवादर्शसंस्कृतमहाविद्यालये शास्त्राभ्यासकार्यशाला
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
