स्वामिविवेकानन्दकनिष्ठमहाविद्यालये माजीविद्यार्थिसम्मेलनं सफलतया सम्पन्नम्
स्वामिविवेकानन्दकनिष्ठमहाविद्यालये माजीविद्यार्थिसम्मेलनं सम्यग् आयोजितं जातम्। अस्मिन् अवसरॆ महाविद्यालयस्य विविधेषु क्षेत्रेषु कार्यरताः तथा विविधशाखासु अध्ययनं कृतवन्तः माजीविद्यार्थिनः उत्साहेन सहभागं कृतवन्तः। अस्य कार्यक्रमस्य अध्यक्षस्थानं महाविद्यालयस्य उपप्राचार्यः प्रो. आर. बी. ठाकरे महोदयः अलङ्कृतवान्। तस्मिन् प्रसङ्गे पर्यवेक्षिका प्रो. स्वाती बर्हाटे महोदया तथा समन्वयकः प्रो. उमेश पाटील महोदयः उपस्थिताः आसन्।
अध्यक्षीयभाषणे प्रो. आर. बी. ठाकरे महोदयेन विभिन्नस्थानेषु यशः संपादितवतां माजीविद्यार्थिनां विषये तथा महाविद्यालये उपलब्धानां सोपस्काराणां (सोयी-सुविधानां) विषये विस्तृतरूपेण विवरणं कृतम्। अस्मिन् एव अवसरॆ माजीविद्यार्थिनां कृते व्हॉट्स्-ॲप्-समूहः आरब्धः।तत्र डॉ. श्रद्धा पाटील, तनिष्क खडके तथा पार्थ देशपाण्डे इत्येते माजीविद्यार्थिनः स्वानि मनोगतानि प्रकटितवन्तः।अस्य कार्यक्रमस्य सूत्रसञ्चालनं कृतज्ञताप्रदर्शनं च प्रो. योगेश धनगर महोदयेन कृतम्। कार्यक्रमस्य सफलतायै प्रो. प्रमोद भोई, प्रो. छाया चौधरी, प्रो. प्रज्ञा पाटील, प्रो. छाया पाटील, डॉ. अतुल इङ्गळे, प्रो. दिनेश महाजन, प्रो. अर्जुन मेटे, डॉ. जयन्त इङ्गळे तथा प्रो. दीपक चौधरी इत्येते सर्वे परिश्रमं कृतवन्तः।
स्वामिविवेकानन्दकनिष्ठमहाविद्यालये माजीविद्यार्थिसम्मेलनं सफलतया सम्पन्नम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
