Chamba News – चम्बायां ग्रामे विवाहोत्सवे अकस्मात् मृत्तिकागृहस्य छदि पतिता, सामाजिकमाध्यमेषु चलचित्रं प्रसृतम्
हिमसंस्कृतवार्ता:- चम्बा।
हिमाचलप्रदेशस्य चम्बामण्डलस्य चुराहस्य जुङ्गराग्रामपञ्चायतस्य शहवा ग्रामे विवाहसमारोहस्य समये मृत्तिकागृहस्य छदि: अकस्मात् पतिता। समाचारानुसारं मृत्तिकागृहस्य छदे: अकस्मात् पतनात् अनेके जनाः घातिताः।
घटनास्थले प्रेक्षकाः घातितान् निजीवाहनैः तीसा- चिकित्सालयं प्रति नीतवन्तः, यत्र ते प्राथमिकचिकित्सां प्राप्नुवन्ति। गृहस्य छदे: पतनेन आक्रोशः उत्पन्नः। विवाहस्य आनन्दः शोकरूपेण परिणतः। प्रत्यक्षदर्शिनां मते विवाहसमारोहे नृत्यं क्रियमाणम् आसीत्, मृत्तिकागृहाणां छदौ बहुसंख्याकाः जनाः उपस्थिताः आसन् सहसा एकस्य मृत्तिकागृहस्य छदि: नृत्यमाणै: जनै: साकं पतिता। काष्ठमृत्तिकया निर्मितस्य गृहस्य छदौ अतिभारस्य कारणेन एषा घटना अभवत्। अस्यां दुर्घटनायां जनाः यदा घातिताः आसन्, तदा स्वामिनः अपि महती हानिः अभवत्।
