Chamba News – चम्बायां ग्रामे विवाहोत्सवे अकस्मात् मृत्तिकागृहस्य छदि पतिता, सामाजिकमाध्यमेषु चलचित्रं प्रसृतम्
हिमसंस्कृतवार्ता:- चम्बा।
हिमाचलप्रदेशस्य चम्बामण्डलस्य चुराहस्य जुङ्गराग्रामपञ्चायतस्य शहवा ग्रामे विवाहसमारोहस्य समये मृत्तिकागृहस्य छदि: अकस्मात् पतिता। समाचारानुसारं मृत्तिकागृहस्य छदे: अकस्मात् पतनात् अनेके जनाः घातिताः।
घटनास्थले प्रेक्षकाः घातितान् निजीवाहनैः तीसा- चिकित्सालयं प्रति नीतवन्तः, यत्र ते प्राथमिकचिकित्सां प्राप्नुवन्ति। गृहस्य छदे: पतनेन आक्रोशः उत्पन्नः। विवाहस्य आनन्दः शोकरूपेण परिणतः। प्रत्यक्षदर्शिनां मते विवाहसमारोहे नृत्यं क्रियमाणम् आसीत्, मृत्तिकागृहाणां छदौ बहुसंख्याकाः जनाः उपस्थिताः आसन् सहसा एकस्य मृत्तिकागृहस्य छदि: नृत्यमाणै: जनै: साकं पतिता। काष्ठमृत्तिकया निर्मितस्य गृहस्य छदौ अतिभारस्य कारणेन एषा घटना अभवत्। अस्यां दुर्घटनायां जनाः यदा घातिताः आसन्, तदा स्वामिनः अपि महती हानिः अभवत्।

दुखस्य विषयम् अस्ति। उत्सवेषु सुरक्षा दृष्टिकोण अति आवश्यकं अभ्यासम्।
-गोविंद गोपाल:, दन्या, अल्मोड़ा उत्तराखंड