बिहारस्य मुख्यमंत्री नीतीशकुमारः पटना-मेट्रो रेल-सेवायाः प्रथम-चरणस्य उद्घाटनं कृतवान्।
हिमसंस्कृतवार्ता: – बिहारस्य मुख्यमंत्री नीतीशकुमारः पटना-मेट्रो रेल-सेवायाः प्रथम-चरणस्य उद्घाटनं कृतवान्। षड्-वर्षाणां दीर्घतमस्य अवधेः अनन्तरं पटनायां बहुप्रतीक्षिता मेट्रो-रेल-सेवा अन्ततः सकारात्मकरूपेण समारब्धा अस्ति। अवधेयं यत् अस्याः परियोजनाः निर्माणकार्य फरवरीमासस्य नवदशोत्तर-द्विसहस्रतमाब्दे प्रधानमन्त्रिणा नरेंद्रमोदिना समारब्धम्। राज्यस्य प्रथम- मेट्रो-रेल-सेवायाः शुभारम्भेण सह एव पटनावासिनां प्रतीक्षासमयः अवसानमगच्छत्। पटना-मेट्रो-रेल-सेवायाः अन्तर्गतं, अन्तराज्यीय-बस-टर्मिनल भूतनाथॉ-स्टेशन इत्यनयोः मध्ये प्रायोरिटी-कॉरिडोर इत्यस्य एलिवेटेड-सेक्शन इत्यत्र प्रथमा मैट्रोरेलसेवा समारब्धा अस्ति। अन्येषु रेल-स्थानकेषु रेलसेवाः आगामिषु चरणेषु समारप्स्यते सहैव कार्यं द्रुतगत्या अग्रे वर्धते।
बिहारस्य मुख्यमंत्री नीतीशकुमारः पटना-मेट्रो रेल-सेवायाः प्रथम-चरणस्य उद्घाटनं कृतवान्।
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
