प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना चीन-देशे आयोजिते शंघाई-सहयोग-संघटनस्य शिखर-सम्मेलने आतङ्ककवादं विरुध्य कृतं वैश्विक एकतायाः आह्वानम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रावोचत् यत् आतंकवाद-विषये मानदण्ड-द्वयम् अस्वीकार्यमस्ति । चीनस्य तियानजिन-मध्ये आयोजिते एस.सी.ओ. इति शंघाई-सहयोग-संघटनस्य शिखर-सम्मेलने निजे वक्तव्ये प्रधानमन्त्री मोदी आतंकवादः मानवतायै एकं बृहत् समाह्वानम् अस्ति इति प्रत्यपादयत्। असौ प्रोक्तवान् यत् आतंकवादस्य सर्वाणि अपि रूपाणि निन्दनीयानि सन्ति। श्रीमोदी अवदत् यत् भारतं विगतेभ्यः चतुर्भ्य: दशकेभ्यः आतंकवादस्य समस्यां सम्मुखीकुरुते। अत्रावसरे अमुना पहलगाम आतंक्याक्रमणस्य अनन्तरं भारतेन साकं ऐक्यबद्धता-प्रकटन-परेभ्यः सर्वेभ्यः देशेभ्यः आभारः अपि व्यक्तीकृतः। प्रधानमन्त्री एतस्मिन् विषये सबलं प्रोक्तवान् यत् भारतं एस.सी.ओ. इति शंघाई-सहयोग-संघटनस्य सदस्यत्वेन सर्वदैव सकारात्मक भूमिकां निर्वहति। असौ अग्रे अवदत् यत् भारतस्य दृष्टिः नीतिश्व त्रिषु प्रमुखस्तम्भेषु सुरक्षा, सम्पर्कः अवसरश्वेत्येतेषु आधारिता अस्ति। प्रधानमन्त्री मोदी शिखर सम्मेलनस्य अवसरे रूस-देशीय-राष्ट्रपतिना व्लादिमीर पुतिन इत्यमुना, चीन-देशीय-राष्ट्रपतिना च शी जिनपिंग इत्यनेन साकमपि विचार-विनिमयं विहितवान्।
प्रधानमन्त्रिमोदिपुतिनयोः सम्भाषणम्
प्रधानमन्त्री नरेन्द्रमोदी रूस-राष्ट्रपतिः व्लादिमीर पुतिनश्च द्विपक्षीय-सहयोग-विषये चर्चा कृतवन्तौ, यत्र खलु वित्तीय क्षेत्राणि, ऊर्जा क्षेत्राणि च समाविष्टानि आसन्। उभाभ्यामपि नेतृभ्यां एतेषु क्षेत्रेषु निरन्तरं समेधमानानां द्विपक्षीय-सम्बन्धानां प्रसंगे सन्तोषः प्रकटितः। चीनस्य तियानजिन-मध्ये आयोजितात् एस.सी.ओ. शिखर सम्मेलनात् पृथक् उभावपि नेतारौ द्वै-पाक्षिकं मन्त्रणोपवेशनम् आचरितवन्तौ । उभाभ्यामपि नेतृभ्यां क्षेत्रीय-विषयेषु वैश्विक-विषयेषु चापि परिचर्चा विहिता, यत्र हि यूक्रेन-सम्बद्धाः घटनाक्रमाः अपि सम्मिलिताः आसन्। द्वावपि नेतारौ “विशिष्टं विशेषाधिकार-प्राप्तं च कार्यनीतिकं साहमत्यम्” अतोSपि सुदृढीकर्तुं नैजं समर्थनं साम्रेडितवन्तौ।
भारत-रूस-देशौ सर्वदा कठिने प्रतिकूल-समयेऽपि स्कन्धेन स्कन्धं संयोज्य मिलित्वा स्थितौ वर्तेते – प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री मोदी राष्ट्रपतये पुतिनाय इदमपि सन्दिष्टवान् यत् सः अस्य वर्षस्य अवसाने भारते आयोक्ष्यमाणे त्रयोविंशे वार्षिक-शिखरसम्मेलने तस्य स्वागतार्थं प्रतीक्षापरः वर्तते। स्वीये उद्घाटन-वक्तव्ये श्रीमोदी उक्तवान् यत् भारत-रूस-देशौ सर्वदा कठिने प्रतिकूल-समयेऽपि स्कन्धेन स्कन्धं संयोज्य मिलित्वा स्थितौ वर्तेते। अनेन प्रोक्तं यत् उभयोः देशयोः निकटता सहयोगार्थं विश्व-शान्ति-सन्धारणार्थं, स्थिरतायै, समृद्धये चापि महत्वपूर्णा वर्तते। प्रधानमन्त्री प्रोदैरयत् यत् नवदिल्ली मॉस्को च निरन्तरं यूक्रेन-संघर्षे चर्चारतौ स्तः। असौ सद्यो विहितानां सर्वेषामपि शान्ति-सन्धारण-प्रयासानां स्वागतमपि कृतवान्। साकमेव मोदिना विषयम् अमुं सन्दृभ्य आशाभिव्यक्ता यत् सर्वेऽपि पक्षाः रचनात्मक-रूपेण अग्रे वर्धिष्यन्ते। अत्रान्तरे, प्रधानमन्त्री चीनस्य यात्रां सम्पाद्य दिल्लीं प्रतिनिवृत्तः अस्ति ।
एस.सी.ओ. घोषणा-पत्रे पहलगाम-आतङ्क्याक्रमणस्य कट्वालोचना कृता। सहैव आतङ्कवादं विरुध्य प्रदत्तः संयुक्तसन्देशः; सदस्यदेशैः क्षेत्रीय-सहयोगेषु, नवाचारेषु च भारतस्य वर्धमानं योगदानं मान्यतां नीतम्
हिमसंस्कृतवार्ता: – शंघाई- सहयोग-संघटनस्य घोषणायां पहलगाम आतङ्क्याक्रमणस्य भृशं भर्त्सना विहितास्ति। साकमेव आतंकवादं विरुध्य एकः स्पष्टः एकीभूतः संदेशः अपि प्रदत्तः अस्ति। राज्यानां परिषदाम् उपवेशनस्य अनन्तरं प्रख्यापितायां घोषणायां भारतस्य समेधमानं योगदानं क्षेत्रीय-सहयोगं नवाचारं चापि मान्यतां सन्नीताः सन्ति। ध्येयमस्ति यत् “तियानजिन घोषणा” आतंकवादं विरुध्य सामूहिक प्रयासानां सुदृढीकरण-प्रसङ्गे एकः महत्वपूर्णः पदक्षेपः अस्ति। सहैव एषा घोषणा एस.सी.ओ. संघटनस्य अन्तर्गतं क्षेत्रीय-सहयोगस्य साकारीकरणे भारतस्य भूमिकायाः महत्त्वमपि सन्दर्शयति। घोषणायाम् आतंकवादं, पार्थक्यवादम्, उग्रवादं च विरुध्य युद्धस्य प्रतिबद्धता सुदृढा अस्ति। एस.सी.ओ. देशैः भाटकेन क्रीत-समूहानाम् उपयोगः अस्वीकृतः, चरमपन्थस्य संकटानां सम्मुखीकरणे च राज्यानां संप्रभु-अधिकारे, उत्तरदायित्वे च बलं प्रदत्तम् अस्ति।