गुर्जरराज्यस्य गीर सोमनाथमण्डलस्य श्रीसोनारी प्राथमिक-शाला ‘सक्षम शाला’ इति पुरस्कारेण सम्मानिता
वार्ताहर: – जगदीश डाभी
गुर्जरप्रान्तत: । गतदिवसे गुर्जरराज्यस्य गीर सोमनाथजनपदे सोमनाथमंदिरस्य पार्श्वे राम मंदिर प्रेक्षागृहे गीर सोमनाथजनपद-प्रान्तश्च स्तरीय ‘सक्षम विद्यालय’ पुरस्कारवितरणं समारोहस्य आयोजनम् अभवत् । तेषां सोमनाथजनपदस्य ५४६ विद्यालयेषु कुलम् ११ विद्यालयाः अस्य पुरस्काराय चयनिताः । तदा उल्लेखनीयमस्ति यत् उनाप्रान्तस्य १११ विद्यालयषु सर्वकारीय श्री सोनारी प्राथमिक शालां पुरस्कारं प्राप्तम् अभवत् ।
कार्यक्रमस्य अध्यक्षस्थाने श्रीप्रकाश टांकमहोदय: आसीत् । समारोहे जनपद-शिक्षण-अधिकारीश्री अशोक पटेलमहोदय:, जनपद-शिक्षण-प्रशिक्षण-भवनस्य प्राचार्यश्री पंपाणीया महोदय:, टी. पी. ओ. गण:, बी. आर. सी. गण:, शिक्षकगण: च उपस्थिता: आसन् ।