काश्यां श्रीमुमुक्षुभवनवेदवेदाङ्गमहाविद्यालयः एवञ्च संस्कृतभारती इत्यनयोः संयुक्ततत्वावधाने आयोजितः संस्कृतसप्ताहस्य समारोपकार्यक्रमः
वार्ताहर: – जगदीश डाभी
अद्य संस्कृतसप्ताहस्य अन्तर्गते अस्सीस्थ श्रीमुमुक्षुभवनवेदवेदाङ्गमहाविद्यालय:, वाराणस्यां स्थिते सभागारे, संस्कृतभारती तथा वेदवेदाङ्गमहाविद्यालयः मुमुक्षुभवनस्य संयुक्ततत्त्वावधानेन आयोजिते संस्कृतसप्ताहस्य समारोपकार्यक्रमे मुख्यातिथिरुपेण विराजमानः सुबह ए बनारस इत्यस्य उपाध्यक्षः तथा च अखिलभारतीयब्राह्मणन्यासपरिषदस्य अध्यक्षः श्रीप्रमोदकुमारमिश्रवर्येण उक्तं यत् “संस्कृतं भारतस्य आत्मा अस्ति”। वेदाः वेदाङ्गानि पुराणानि वाल्मीकिरामायणं महाभारतम् अन्ये च शास्त्रग्रन्थाः संस्कृतभाषायामेव लिखिताः” इति। अध्यक्षपदं अलङ्कुर्वाणः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः संस्कृतविद्याविभागस्य आचार्यः , उत्तरप्रदेशसंस्कृतसंस्थानस्य सदस्यः तथा च संस्कृतभारती काशीमहानगराध्यक्षः प्रो. रविशङ्करपाण्डेयवर्येण कथितं यत् “संस्कृतं केवलं भाषा न, अपितु समग्रसंस्कृतिरपि अस्ति। एषा सङ्गणकाय सर्वाधिकोपयुक्ता भाषा अस्ति। संस्कृतं सर्वभाषाणां जननी अस्ति। भारतसर्वकारस्य उत्तरप्रदेशसर्वकारस्य च धन्यवादं करोमि, यतः शासनस्य प्रयत्नैः अद्य संस्कृतस्य प्रचारः प्रसारश्च सर्वत्र जायमानः वर्तते”।
संस्कृतभारत्याः श्रीमुमुक्षुभवनमहाविद्यालयस्य च संयुक्तप्रयत्नेन अस्मिन् संस्थाने अधुना निरन्तरं संस्कृतसंभाषणशिविरं, गीतापारायणं, कर्मकाण्डप्रशिक्षणं च प्रवर्तिष्यते। कार्यक्रमस्य संयोजनं सफलसञ्चालनञ्च संस्थायाः प्राचार्यः एवं संस्कृतभारती काशीमहानगरशिक्षणप्रमुखः डॉ. शैलेन्द्रनाथदीक्षितेन कृतम्। कार्यक्रमे संस्थायाः छात्राः, समस्ताध्यापकवर्गः, कर्मचारीगणः उपस्थिताश्चासन। धन्यवादवितरणं संस्थायाः महामंत्री श्रीकृष्णकुमारकावरा महोदयेन कृतम्। प्रामुख्यरुपेण प्रान्तशिक्षणप्रमुखः श्रीअशोकचौधरी, डॉ० सरोजकुमारपाण्डेयः, डॉ० अमरचन्दठाकुरः, श्रीविमलकुमारपाण्डेयः, ट्विंकलमोहान्ति, शिवममौर्यः इत्यादयः अपि उपस्थिताः आसन्।