By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?
हिमाचलवार्ता

हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?

डॉ.अमनदीप शर्मा
Last updated: 2026/04/04 at 8:16 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

हिमाचल-प्रधानमन्त्री आवास योजना: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?
हिमसंस्कृतवार्ता: – शिमला।
केन्द्रसर्वकारेण नगरीयक्षेत्रेषु सर्वेभ्यः आवासं प्रदातुं उद्देशेन ‘प्रधानमन्त्री आवास योजना-शहरी २.०’ प्रारब्धा। एषा योजना २०२४ तमे वर्षे सितम्बर-मासस्य प्रथमदिनाङ्कात् आगामिपञ्चवर्षाणि यावत् प्रवर्तते। अस्याः योजनायाः अन्तर्गतं गृहनिर्माणार्थं केन्द्रसर्वकारेण २.२५ लक्षं रूप्यकाणि तथा राज्यसर्वकारेण २५ सहस्रं रूप्यकाणि सहायताधराशिः प्रदीयते।
कथं करणीयं आवेदनम्
योजनायै आवेदनं कर्तुमिच्छुकाः जनाः ‘पीएमएवाई-यू’ (PMAY-U) इत्यस्य अधिकृत-जालपुटे (Website) गत्वा अन्तर्जालमाध्यमेन आवेदनं कर्तुं शक्नुवन्ति। एतदतिरिच्य इच्छुकजनाः नगरनिकायस्य कार्यलये अपि आवेदनं कर्तुं शक्नुवन्ति। सर्वकारस्य लक्ष्यमस्ति यत् अस्याः योजनायाः माध्यमेन नगरीयक्षेत्रेषु निवसन्तः निर्धनाः मध्यमवर्गीयाः च जनाः अल्पमूल्ये उत्तम-आवाससुविधां प्राप्नुयुः। अस्याः अन्तर्गतं पात्रलाभार्थिभ्यः गृहनिर्माणार्थं, क्रयणार्थं वा भाटकेन स्वीकरणार्थं च आर्थिकसहायता दास्यते, येन ते न्यूनदरेण स्वकीयं गृहं प्राप्तुं शक्नुवन्ति।
कः आवेदनं कर्तुं शक्नोति
योजनायाः लाभः आर्थिकरूपेण दुर्बलवर्गाय (EWS), निम्न-आयवर्गाय (LIG) तथा मध्यम-आयवर्गाय (MIG) च लप्स्यते। पात्राणि ताानि एव कुटुम्बानि भविष्यन्ति येषां समीपे देशे कुत्रापि दृढं (‘पक्का’) गृहं नास्ति। कुटुम्बे पति-पत्नी तथा अविवाहिताः पुत्राः पुत्र्यः च सम्मिलिताः भविष्यन्ति। योजनायाः अन्तर्गतं न्यूनतम् ३० वर्गमीटर-परिमितं गृहं निर्मीयते, यस्मिन् जलं, विद्युत्, मार्गः, स्वच्छता सदृशाः मूलभूतसुविधाः अनिवार्याः भविष्यन्ति।
राज्येभ्यः का अस्ति शिथिलता
राज्येभ्यः गृहस्य आकारं ४५ वर्गमीटर-परिमितं यावत् वर्धयितुं अनुमतिः प्रदत्ता। सहैव परियोजनासु दिव्यांगजनेभ्यः सोपानमार्गः (Ramp), अङ्गणवाडी-केन्द्रं, वर्षानिधि-सञ्चयनं (Rainwater harvesting) तथा सौर-ऊर्जा सदृशाः सुविधाः अपि सुनिश्चिताः भविष्यन्ति। एषा योजना चतुर्षु मुख्यभागेषु प्रयोक्ष्यते। प्रथमं, ‘लाभार्थी-आधारित-निर्माण’ (BLC) इत्यस्य अन्तर्गतं निर्धनाः जनाः स्वभूमौ गृहं निर्मातुं शक्ष्यन्ति तथा किस्तेषु (Installments) सहायतां प्राप्स्यन्ति। द्वितीयं, ‘सहभागिता-इत्यत्र किफायती-आवास’ (AHP) इत्यस्य अन्तर्गतं निजी-सर्वकारीय-परियोजनासु अल्पमूल्ये गृहाणि उपलब्ध्वानि भविष्यन्ति। तृतीयं, न्यून- शुल्क- आवास’ (ARHC) इत्यस्य अन्तर्गतं नगरीयनिर्धनेभ्यः कर्मचारिभ्यः च भाटकगृहाणि उपलभ्यन्ते। चतुर्थं, ‘ब्याज- सबसिडी- योजना’ (CLSS) इत्यस्य अन्तर्गतं गृहक्रयणार्थं स्वीकृतऋणे (Loan) व्याज-अनुदानं दास्यते।
का अस्ति वार्षिकी आय-सीमा?
आय-सीमायां ईडब्लयूएस (EWS) वर्गस्य वार्षिकी आयः ३ लक्षं रूप्यकाणि यावत्, एलआईजी (LIG) वर्गस्य ३ तः ६ लक्षं यावत् तथा एमआईजी (MIG) वर्गस्य ६ तः ९ लक्षं रूप्यकाणि यावत् निर्दिष्टा अस्ति।

You Might Also Like

हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,

हिमाचले टोल-टैक्स’ विषये सङ्ग्रामः! हिमाचले वर्धितस्य ‘प्रवेशशुल्कस्य’ विरोधाय पञ्जाब-सीमायाम् मार्ग-अवरोधः

“यदि विधिक-बाधा न भविष्यति, तर्हि ३१ मई पर्यन्तं पञ्चायत-निर्वाचनं भविष्यति” – मुख्यमन्त्री सुक्खू:

राष्ट्रियस्तरे हिमाचलस्य द्वौ पञ्चायतौ प्रथितौ; एककोटिः तथा ५० लक्षं रूप्यकाणि प्राप्स्यतः; लाहुल-जनपदस्य ‘शांशा’ देशे प्रथमा

हिमाचलप्रदेशस्य कृषकाणाम् आर्थिक- सुदृढ़ीकरणाय सर्वकारस्य प्रयासः- सुखविंद्र सिंह सुक्खु:

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?