प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् यत् प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति। पञ्चदशधिक-द्विसहस्र-तमे वर्षे आरब्धा इयं योजना एकादश वर्षाणि पूरयति। सामाजिक-माध्यम-संदेशे श्रीमोदी अवदत् यत् योजनायाः सफलतया ज्ञायते यत् यदा जनान् समुचितानि अवसराणि दीयन्ते तदा ते स्वावलम्बी भवितुं शक्नुवन्ति, राष्ट्रस्य प्रगतेः कृते महत्त्वपूर्ण योगदानं च दातुं शक्नुवन्ति। अद्यावधिः प्रधानमन्त्री-मुद्रा-योजनायाः अन्तर्गतं प्रायः अष्टपञ्चाशत् कोटिरूप्यकाणां ऋणानि स्वीकृतानि सन्ति। ऋणस्य तृतीयांशद्वयम् महिला उद्यमिनां कृते स्वीकृतम् अस्ति। सर्वेषु ऋणेषु प्रायः पञ्चमांशभागः प्रथमवारं नवोद्यमीनां कृते प्रदत्तः अस्ति। मुद्रा-ऋणानि ‘शिशु, किशोर, तरुण, तरुण-प्लस’ चेत्यादिष’ चतुर्वर्गेषु प्रदत्ताः सन्ति, येन ऋणग्रहीतानां वृद्धेः, विकासस्य, वित्तपोषणस्य च आवश्यकता ज्ञायन्ते।
प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
