Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
हिमसंस्कृतवार्ता:, वार्ताहर: – डॉ. नरेन्द्र राणा
संस्कृतसप्ताहोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। प्रतियोगितायामस्यां राजस्थानत: मनोज सैनी प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थानं मंजू प्रजापत: राजस्थानत:, तृतीय-स्थाने च उत्तर प्रदेशात् गीता शुक्ला वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: बिहारत: संस्कृतशिक्षक: दिनेश पाण्डेय: ‘मनु’, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। पुरस्कार-प्रायोजक: दिनेश पाण्डेय: सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृत रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।