By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,
हिमाचलवार्ता

हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,

डॉ.अमनदीप शर्मा
Last updated: 2026/04/04 at 8:14 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि, केवलम् आवश्यकेषु विषयेषु एव विचारः भविष्यति
हिमसंस्कृतवार्ता:- शिमला।हिमाचलप्रदेशे नूतन-शैक्षणिक-सत्रात् शिक्षकेषु सामान्य-स्थानान्तरणानां निषेधः यथावत् धारयितुं निर्णयः कृतः अस्ति। शिक्षाविभागेन स्पष्टं कृतं यत् अधुना केवलम् अत्यावश्यक-प्रकरणेषु एव स्थानान्तरणेषु विचारः क्रियते, येन विद्यालयेषु शैक्षणिकव्यवस्था न प्रभावितः भवेत्, विद्यार्थिनां अध्ययनं च सुचारुरूपेण प्रवर्तेत। अस्य निर्णयस्य मुख्यं कारणं प्रदेशस्य १५५ सीबीएसई विद्यालयेषु अस्मिन् मासे भविष्यन्त्यः नूतन-नियुक्तयः सन्ति। एतेषु विद्यालयेषु शिक्षकेषु नियुक्तिः परीक्षामार्गेण क्रियते, येन व्यापक-स्थानान्तरण-स्थिति उत्पद्यते। अतः विभागेन सामान्य-स्थानान्तरणानां निषेधं कृत्वा स्थितेः नियन्त्रणं कर्तुं निर्णयः कृतः अस्ति।
सीबीएसई विद्यालयेषु परीक्षाया वरीयता- आधारेण शिक्षकेषां नियुक्तिः भविष्यति
सीबीएसई पाठ्यक्रमयुक्तेषु विद्यालयेषु शिक्षकेषां नियुक्तिः परीक्षाया मेरिट-आधारेण भविष्यति। अनेन एतेषु विद्यालयेषु वर्तमान-कर्मचारिषु व्यापकः परिवर्तनः दृश्यते। नूतन-चयन-प्रक्रिया प्रवर्तिते सति बहवः शिक्षकाः अन्येषु स्थानेषु प्रेषिताः भविष्यन्ति, यदा योग्याः शिक्षकाः एतेषु विद्यालयेषु नियुक्तिं प्राप्स्यन्ति। शिक्षामन्त्री रोहित ठाकुरः अवदत् यत् सत्रस्य आरम्भे विशाल- परिमाणेन स्थानान्तरणं विद्यालयानां व्यवस्थां विक्षिप्तुं शक्नोति। अतः एतत् दृष्ट्वा सामान्य- स्थानान्तरणानि अद्य न उद्घाटितानि भविष्यन्ति। यत्र अत्यधिक-आवश्यकता भविष्यति, तत्र एव स्थानान्तरणानि क्रियन्ते।
३१ मार्चे प्रदेशे ६५० शिक्षकाः सेवानिवृत्ताः अभवन्
३१ मार्चे सम्पूर्ण-प्रदेशे प्रायः ६५० शिक्षकाः सेवानिवृत्ताः अभवन्, येन अनेकविद्यालयेषु शिक्षकेषां न्यूनता उत्पन्ना जाता। अतः नूतन- नियुक्तिभिः सीमित-स्थानान्तरणैश्च एषा न्यूनता पूर्तुं योजना क्रियते।
सेवानिवृत्तेः पूर्वसूचना अनिवार्या
शिक्षाविभागेन स्पष्टं कृतं यत् शिक्षकैः शैक्षणिकसत्रे २०२६-२७ मध्ये सेवानिवृत्तिं ग्रहीतुं इच्छन्ति चेत् पूर्वसूचना दातुम् अनिवार्या। अनेन विभागाय समये एव वैकल्पिकव्यवस्था कर्तुं साहाय्यं भविष्यति, छात्राणां अध्ययनं न प्रभावितं भविष्यति। ये शिक्षकाः सेवानिवृत्तेः सूचनां न दास्यन्ति, तेषां सेवाः ३१ मार्च २०२७ पर्यन्तं प्रवर्तिष्यन्ते।

You Might Also Like

हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?

हिमाचले टोल-टैक्स’ विषये सङ्ग्रामः! हिमाचले वर्धितस्य ‘प्रवेशशुल्कस्य’ विरोधाय पञ्जाब-सीमायाम् मार्ग-अवरोधः

“यदि विधिक-बाधा न भविष्यति, तर्हि ३१ मई पर्यन्तं पञ्चायत-निर्वाचनं भविष्यति” – मुख्यमन्त्री सुक्खू:

राष्ट्रियस्तरे हिमाचलस्य द्वौ पञ्चायतौ प्रथितौ; एककोटिः तथा ५० लक्षं रूप्यकाणि प्राप्स्यतः; लाहुल-जनपदस्य ‘शांशा’ देशे प्रथमा

हिमाचलप्रदेशस्य कृषकाणाम् आर्थिक- सुदृढ़ीकरणाय सर्वकारस्य प्रयासः- सुखविंद्र सिंह सुक्खु:

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अमरीका-ईरान-इजरायल युद्धम्-: आईआरजीसी-पक्षतः अमरीकी-विमानस्य पतनस्य पुष्टिः
Next Article हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?