खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्
वार्ताहर: – जगदीश डाभी, उत्तराखण्ड:।
कोट, उत्तराखण्डसंस्कृतसंस्थानस्य तत्त्वावधाने समायोजितस्य अष्टादशसंस्कृतमहोत्सवस्य अन्तर्गतं खण्डस्तरीयसंस्कृतछात्रप्रतियोगितायाः आयोजनं ब्रिगेडियरविद्याधरजुयालसंस्कृतविद्यालये, भुवनेश्वरी इत्यत्र अत्युत्साहपूर्णे संस्कृतमयवातावरणे सम्पन्नमभवत्।
संस्कृतभाषासंरक्षणसंवर्धनपूर्वकं विद्यार्थिषु संस्कृताध्ययनानुराग-जिज्ञासात्मविश्वास-सृजनशीलतादीनामभिवर्धनमुद्दिश्य समायोजितायामस्यां प्रतियोगितायां कोटविकासखण्डान्तर्गतविविधशिक्षणसंस्थानेभ्यः समागतैः छात्रैः छात्राभिश्च उत्साहपूर्वकं सहभागिता विहिता।कनिष्ठवरिष्ठवर्गद्वयविभक्तायां प्रतियोगितायां नाटकं, आशुभाषणं, वादविवादः, श्लोकोच्चारणं, समूहगानं, समूह-नृत्यं च इत्येतेषु षट्सु स्पर्धाक्षेत्रेषु प्रतिभागिभिः स्वकीयवाक्पटुताभिनयनैपुण्यकाव्याभिव्यक्तिसङ्गीतप्रज्ञानृत्यनैपुण्यादीनां मनोहारि प्रदर्शनं समुपस्थापितम्।

अस्याः प्रतियोगितायाः शुभारम्भः विद्यालयप्रधानाचार्या अनसूयाप्रसादसुन्दरियाल: छात्रावासाधीक्षकः नवीनजुयाल:तथा अनिलगुसाईंमहोदयः इत्येतेषां करकमलाभ्यां दीपप्रज्वलनेन शुभारम्भ: अभवत। प्रतियोगितायां केन्द्रीयसंस्कृतविश्वविद्यालयस्य रघुनाथकीर्तिपरिसरदेवप्रयागात्, रा इ का देवप्रयाग: नाहसैण-दोंदल-कोट-मांसाणगांव-खोलाचौरी-भुलनेश्वरी ,पलोटाबसन्तपुरादिभ्यश्च विद्यालयेभ्यः छात्राः छात्र्यश्च समुपेत्य स्वप्रतिभाप्रदर्शनं कृतवन्तः।

भुवनेश्वरीप्रतिभानां विजयवैजयन्ती प्रतियोगितायां ब्रिगेडियरविद्याधरजुयालसंस्कृतविद्यालयभुवनेश्वरी इत्यस्य छात्रैः स्वप्रतिभाप्रकाशनेन सर्वान् अभिभावयद्भिः दशसु स्पर्धासु प्रथमस्थानमधिगत्य विद्यालयस्य गौरवगरिमानमभिवर्धितम्। कनिष्ठवर्गे नाटक-आशुभाषण-वादविवाद-श्लोकोच्चारणस्पर्धासु प्रथमस्थानं, समूह-नृत्यस्पर्धायां द्वितीयस्थानं, समूहगानस्पर्धायां च तृतीयस्थानं सम्प्राप्तम्। वरिष्ठवर्गे नाटक-आशुभाषण-वादविवाद-श्लोकोच्चारण-समूहनृत्यस्पर्धासु प्रथमस्थानं तथा समूहगानस्पर्धायां द्वितीयस्थानं प्राप्तम्।
विद्यालयप्रधानाचार्या अनसूयाप्रसादसुन्दरियाल: छात्रावासाधीक्षकः नवीनजुयालमहोदयश्च सर्वेषां प्रतिभागिनां उत्साहवर्धनं कुर्वन्तौ प्रतिपादितवन्तौ यत् संस्कृतमहोत्सवः विद्यार्थिजीवनस्य निरन्तरप्रेरणास्रोतस्वरूपः वर्तते। विद्यालयमिदं विगतसप्तदशवर्षेभ्यः खण्डस्तरीयप्रतियोगिताभ्यः राज्यस्तरीयप्रतियोगितापर्यन्तं निरन्तरं सहभागित्वं निर्वहदस्ति। एतादृशैः संस्कृतिसंस्कारसंवर्धनोपयोगिभिरायोजनैः विद्यार्थिषु अनुशासनात्मविश्वासनेतृत्वक्षमतादीनां सर्वतोमुखाभिवृद्धिर्भवति।
कार्यक्रमस्य सञ्चालनदायित्वं डॉ.अनूपकुकरेतीमहोदयेन डॉ.नवीनममगाईंमहोदयेन च संयुक्तरूपेण निर्व्यूढम्। समापनसमारोहे केन्द्रीयसंस्कृतविश्वविद्यालयस्य रघुनाथकीर्तिपरिसरस्य निदेशकः डॉ.सुब्रमण्यम्-महोदयः तथा बी.जी.आर.परिसरपौडीस्थसंस्कृतविभागीयः दिनेशपाण्डेयमहोदयः समुपस्थितौ आस्ताम्। निदेशकः प्रतिभागिनामुत्साहवर्धनं कुर्वन् प्रतिपादितवान् यत् संस्कृतस्य महत्त्वमेकदिवसीयप्रतियोगितापर्यन्तं न परिसीमितं भवेत्, अपितु संस्कृतभाषा जीवनचर्यायाः सहचरी, संस्काराणां संवाहिका, भारतीयज्ञानपरम्परायाश्च आधारभूता भवेत्। अतः संस्कृताध्ययनाध्यापनयोः संरक्षणसंवर्धनयोश्च सर्वैः सातत्येन प्रयत्नः करणीयः। दिनेशपाण्डेयमहोदयेनापि प्रतियोगितायाः प्रशंसां विदधता सर्वेभ्यः प्रतिभागिभ्यः हार्दिकशुभकामनाः समर्पिताः।
डॉ.नवीनममगाईंमहोदयः अवदत् यत् एतादृशाः संस्कृतप्रतियोगिताः विद्यार्थिनां अन्तर्निहितप्रतिभाप्रतिभासनाय, संस्कृतसंस्कृतिसंस्कारपरम्परासम्बन्धदृढीकरणाय च सशक्तमञ्चं प्रददति। खण्डस्तरे प्रथमद्वितीयस्थानमधिगन्तारः प्रतिभागिनः आगामिनि जनपदस्तरीयसंस्कृतप्रतियोगितायां सहभागित्वं करिष्यन्ति इति तेन प्रतिपादितम्। अन्ते खण्डसंयोजकेन विश्वक्सेनमहोदयेन उत्तराखण्डसंस्कृतसंस्थानस्य प्रति कृतज्ञताभावः प्रकटितः। तेन समागतानां सर्वेषां प्रतिभागिनां, दलशिक्षकाणां, निर्णायकमण्डलस्य, विद्यालयपरिवारस्य च सहयोगाय हार्दिकं धन्यवादज्ञापनं कृत्वा कार्यक्रमस्य समापनमुद्घोषितम्।
