By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी

डॉ.अमनदीप शर्मा
Last updated: 2025/07/13 at 8:24 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय-सहयोग-प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति। तेनोक्तं अद्य विश्वं स्वीकरोति यत् भारतस्य द्वे शक्ती वर्तेते। प्रथमा शक्तिः जनसाङ्ख्यिकी अपरं च तदीयं लोकतन्त्रम्। अवधेयमस्ति यत् प्रधानमन्त्री आभासीयमाध्यमेन विविधेषु प्राशासनिक-विभागेषु एकपञ्चाशत् सहस्राधिकेभ्यः युवभ्यः नियुक्ति-पत्राणां वितरणस्य अनन्तरं रोज़गारमेला इत्यस्मिन् कार्यक्रमे वदति स्म। नवनियुक्तेभ्यः वर्धापनानि यच्छन् श्रीमोदी अवोचत् यत् सर्वकारस्य रोज़गारमेला उपक्रमेण लक्षशो युवानः केन्द्र-सर्वकारे स्थायी नियुक्तयः प्राप्तवन्तः। राष्ट्र-निर्माणे महत्त्वपूर्णां भूमिकां च निभालयन्ति । प्रधानमन्त्रिणा देशे विकासमानानां स्टार्टप नवाचार-अनुसंधानानां च समेधमानस्य इको सिस्टम इत्यस्य अपि उल्लेखो विहितः। यत् हि देशस्य यूनां क्षमताः वर्धयति । निजी क्षेत्रे वृत्तेः नूतनानावसराणां सर्जने प्रधानमन्त्रिणा उक्तं यत् सद्य एव रोज़गार इत्यनेन सम्बद्धा प्रोत्साहन योजना अनुमता। तेन प्रोक्तं यत् अनने उपक्रमेण सर्वकारेण एक-लक्ष-कोटि रूप्यकाणि आबंटितानि येन सार्धत्रिकोटि-वृत्त्यवसराणां सर्जने साहाय्यं भविष्यति।

केन्द्रीय-वित्तमन्त्री निर्मलासीतारमण: मेघालये एकसहस्र-सप्ताशीति-कोटि-रूप्यकाणां नैकासां परियोजनां शिलान्यासम् उद्घाटनं च कृतवती
हिमसंस्कृतवार्ता: – केन्द्रीय-वित्तमन्त्री निर्मलासीतारमण: मेघालये एकसहस्र-सप्ताशीति-कोटि-रूप्यकाणां नैकासां परियोजनां शिलान्यासम् उद्घाटनं च कृतवती। शिलांग-स्थिते अन्ताराष्ट्रिय-प्रदर्शन-कला-संस्कृति-केन्द्रे लारी इत्यत्र आयोजिते कार्यक्रमे तया मुख्यमन्त्रिणः कॉनराड संगमा इत्यस्य नेतृत्वे मेघालयस्य सतत-विकासस्य साहसिक-दृष्टिकोणस्य च प्रशंसा कृता। वित्तमन्त्रिणा उक्तं यत् मेघालयेन राज्येभ्यः निवेशाय विशेष-साहाय्यरूपेण आबण्टितानां चतुः शताधिक-पञ्च-सहस्र-कोटि रूप्यकाणां पूणोपयोगः कृतः। अपरत्र विविधैः राज्यैः स्वीकृत-राशेः पूर्णोपयोगः नैव कृतः ।

प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य विकसति-भारतस्य स्वप्नः दक्षिण-राज्यानां विकासेन एव साकारः भविष्यति – अमितशाह:
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमंत्री अमितशाहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य विकसति-भारतस्य स्वप्नः दक्षिण-राज्यानां विकासेन एव साकारः भविष्यति । श्रीशाहेन तिरुवनंतपुरमनगरे पुथर्रिकदम प्रांगणे भाजपादलस्य राज्य-स्तरीयोपवेशनं संबोधयता प्रोक्तम् यत् केरल-राज्यस्य उन्नतिः विकासश्च विकसित-भारतस्य अभिन्नं अंगं वर्तते। श्री शाहेन एतदपि प्रोक्तम् यत् भ्रष्टाचार-मुक्त-शासनं प्रधानमन्त्री नरेन्द्र मोदी वर्यस्य मूल-स्वप्नः अस्ति यः केरल-राज्यस्य विकासार्थं आवश्यकः वर्तते।

छत्तीसगढ़स्य सुकमाजनपदे त्रयोविंशतिः माओवादिनः आत्मसर्मणं कृतवन्तः
हिमसंस्कृतवार्ता: – छत्तीसगढ़स्य सुकमाजनपदे त्रयोविंशतिः माओवादिनः आत्मसर्मणं कृतवन्तः। एतेषु माओवादिषु नव महिलाः सन्ति। जनपदस्य आरक्षि महानिरीक्षकः किरण चव्हाणः अवादीत् यत् एतेषु माओवादिषु अष्टलक्षाधिक एक-कोटि-रूप्यकाणां पुरस्कारस्य घोषणा आसीत्।

अहमदाबादविमानदुर्घटना विषये विमानदुर्घटना-अनुसन्धान ब्यूरो-संस्थया प्रारम्भिकं पञ्चदश-पृष्ठात्मकं प्रतिवेदनं प्रकाशितम्
हिमसंस्कृतवार्ता: – अहमदाबादविमानदुर्घटना विषये विमानदुर्घटना-अनुसन्धान ब्यूरो-संस्थया प्रारम्भिकं पञ्चदश-पृष्ठात्मकं प्रतिवेदनं प्रकाशितम्। अहमदाबादनगरे जूनमासस्य द्वादश-दिनाङ्के घटितस्य एयर इण्डिया ड्रीमलाइनर-विमानदुर्घटनायाः प्रारम्भिक-अन्वीक्षण-प्रतिवेदनं प्रकाशितम् अस्ति तथा च अस्य प्रतिवेदनानुसारं विमानस्य उड्डयनानन्तरं कतिपयेषु सेकेण्ड्-अनन्तरमेव विमानस्य इञ्जिनद्वयं वायौ एव स्थगितम्, तदनन्तरं एषा दुर्घटना जाता। तस्मिन् एव काले प्रतिवेदनात् पूर्वं अस्मिन् विषये संशयाः उत्पद्यन्ते स्म, अधुना प्रतिवेदनस्य अनन्तरं तेषां पुष्टिः अभवत् । महत्त्वपूर्णम् अस्ति यत् काकपिट इत्यस्य स्वर-मुद्रणे एकः विमानचालकः “किमर्थं इंजनमिति स्थगितवान्” इति पृच्छति श्रूयते। अपरः च विमानचालकः “मया न कृतम्” इति कथयति। तथ्यं तु एतत् यत् स्विच इति कथं ‘CUTOFF’ अभवत्, येन इञ्जिन इत्येतस्मिन् इन्धनस्य अभावः जातः, दुर्घटना चाभवत् । अग्रे अन्वेषणस्य मुख्यं केन्द्रं एतत् एव भविष्यति इति अपेक्षा अस्ति।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article आपदि जयरामठाकुरस्य सहृदय-नेतृत्वम्
Next Article दक्षिणस्य दिग्गजः अभिनेता-कोटा श्रीनिवास रावः इत्यस्य निधनम् अभवत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?