द्वितीयराजभाषायाः संस्कृतस्य उन्नयनाय ‘संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्।
देहरादूनम् – अद्य संस्कृतभारती उत्तराञ्चल-प्रान्तस्य संगठनमन्त्री श्रीगौरवशास्त्री, प्रान्तमन्त्री श्रीगिरीशतिवारी, कोषाध्यक्षः श्रीअंकितवर्मा च प्रदेशस्य द्वितीयराजभाषायाः संस्कृतस्य विकासं प्रति सम्बद्धानां विविधसमस्यानां समाधानाय च उत्तराखण्डराज्यस्य माननीयमुख्यमन्त्रिणा श्री-पुष्करसिंहधामिना साकं मेलनं कृतवन्तः।
प्रतिनिधिमण्डलेन संस्कृतशिक्षकाणां रिक्तस्थानानां शीघ्रं पूर्तीकरणं, संस्कृतविद्यालयेषु महाविद्यालयेषु च शिक्षकेषु विद्यमानसमस्याः च तासां नियमितं प्रभावशालि च सञ्चालनं करणीयमिति निवेदनं कृतम्। तदैव च राज्यसर्वकारस्य विविधविभागेषु द्वितीयराजभाषारूपेण संस्कृतभाषायाः व्यवहारिकप्रयोगः, संस्कृतप्रशोधकार्येषु विशेषानुदानस्य प्रबन्धनं च प्रमुखरूपेण प्रस्तुतम्।
मुख्यमन्त्री श्री-धामी-महोदयः प्रतिनिधिमण्डलस्य प्रस्तावान् श्रद्धया शृण्वन् उक्तवान् यत् संस्कृतभाषायाः संरक्षणविकासाभ्यां राज्यसर्वकारः पूर्णतया प्रतिबद्धः अस्ति, तद्दिशि सर्वासां समस्याणां शीघ्रं समाधानं सुनिश्चेष्यते इति।
समं मुख्यमन्त्रिणा संस्कृतभारत्याः प्रयासाः, समर्पणं च प्रशंसितम्। एतेषां सत्कार्याणां कृते मुख्यमंत्रीधामिनः सकारात्मकं आश्वासनं प्राप्य संस्कृतभारत्या तस्मै हार्दा कृतज्ञता आविष्कृता। व्यक्तं यत् उत्तराखण्डराज्यं शीघ्रं संस्कृतवाङ्मयस्य क्षेत्रे भारते आदर्शरूपेण प्रतिष्ठां लप्स्यते।