By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,
हिमाचलवार्ताराष्ट्रीयवार्ताः

एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,

डॉ.अमनदीप शर्मा
Last updated: 2025/07/02 at 8:37 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:, मुख्यमन्त्रिणा साकं वार्तां कृत्वा त्वरितकार्यविधि: याचिता
हिमसंस्कृतवार्ता:- शिमला।शिमलानगरे एनएचएआई-अधिकारिणः उपरि प्रहारं कृत्वा केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन रोष: प्रकटित:। गडकरी हिमाचलस्य मुख्यमन्त्री सुखविन्दरसिंह सुखु इत्यनेन सह अस्य विषये भाषितवान्, तत्क्षणं न्यायपूर्णं कार्यविधिं कर्तुं च आग्रहं कृतवान्। गडकरी उक्तवान् यत् अस्मिन् प्रकरणे उत्तरदायित्वं सुनिश्चितं कर्तव्यं, न्यायः च विलम्बं विना प्रदातव्यः। केन्द्रीयमन्त्री ‘X’ इत्यत्र उल्लेखद्वारा एतां सूचनां दत्तवान्।
गडकरी इत्यनेन स्वीये एक्सपटले लिखितं यत्, ‘हिमाचलप्रदेशस्य पंचायतीराजमन्त्री तस्य सहकारिभिः च एनएचएआई पीआईयू शिमलाप्रबन्धकस्य अचलजिन्दलस्य उपरि कृतः जघन्यः प्रहार: अत्यन्तनिन्दनीय: विधिशासनस्य अपमानं च अस्ति।’ स्वस्य आधिकारिकं कर्तव्यं निर्वहन्त: लोकसेवकस्य उपरि एतादृशः क्रूरः आघात: न केवलं व्यक्तिगतसुरक्षां संकटं जनयति अपितु संस्थागत अखण्डताम् अपि नष्टं करोति। मया प्रकरणस्य गम्भीरं संज्ञानं कृत्वा मुख्यमन्त्रिणा सह उक्तं, सर्वेषाम् अपराधिनां विरुद्धं तत्कालं अनुकरणीयं च कार्यविधिं कर्तुम् आग्रहः कृतः। उत्तरदायित्वं सुनिश्चितं कर्तव्यं, न्यायः च विलम्बं विना प्रदातव्यः।’ अवधेयं वर्तते यत् एनएचएआई- अभियन्ता अचल जिन्दलः शिमलानगरस्य भट्टाकूफरं यत्र पञ्चतलीयभवनं पतितं तत्र गृहेषु स्थितिं ज्ञापयितुं प्राप्तवान् आसीत्। तत: पूर्वं पंचायतीराजमन्त्री अनिरुद्धसिंहः शिमलाग्रामीण एसडीएम, पुलिसकर्मिण: चापि स्थलं प्राप्तवन्तः आसन्। अस्मिन् काले एनएचएआई-अभियन्तार: अपि तत्स्थानं प्राप्तवन्तः आसन्। एतस्मिन् समये केचन जनाः एनएचएआई-अभियन्तृ-जनानाम् उपरि चपेटिकया मारयित्वा मुष्टिप्रहारं कृतवन्तः। एतस्मिन् समये जनानां समूहे एकः व्यक्तिः एकस्य अभियन्तु: शिरसि घटेन प्रहारं कृतवान्, येन अभियन्तु: दुर्गतिः अभवत्। अधुना आहत- अभियन्तु: उपालम्भे पुलिसस्थानके ढली इत्यत्र पंचायतीराजमन्त्रिण: विरुद्धं प्रकरणं पञ्जीकृतम्। अचल जिन्दल: स्वस्य उपालम्भे अवदत् यत्, “मन्त्री अस्मान् समीपस्थं कक्षं नीत्वा जलघटेन मां ताडितवान्, येन मम शिरः क्षतिग्रस्तः अभवत्। योगेशः हस्तक्षेपं कृतवान् तदा सः अपि ताडितः अभवत्। एसडीएम- पुलिसकर्मचारिणाम् उपस्थितौ अपि कोऽपि मम साहाय्यं न कृतवान्। शिमला पुलिसाधीक्षकः संजीव गान्धी इत्यनेन प्राथमिकी पंजीकृता इति पुष्टिः कृता।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article हिमाचलप्रदेशे वर्षाकारणात् राज्यस्य ५०० कोटिरूप्यकाणां हानिः अभवत्
Next Article संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?