एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:, मुख्यमन्त्रिणा साकं वार्तां कृत्वा त्वरितकार्यविधि: याचिता
हिमसंस्कृतवार्ता:- शिमला।शिमलानगरे एनएचएआई-अधिकारिणः उपरि प्रहारं कृत्वा केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन रोष: प्रकटित:। गडकरी हिमाचलस्य मुख्यमन्त्री सुखविन्दरसिंह सुखु इत्यनेन सह अस्य विषये भाषितवान्, तत्क्षणं न्यायपूर्णं कार्यविधिं कर्तुं च आग्रहं कृतवान्। गडकरी उक्तवान् यत् अस्मिन् प्रकरणे उत्तरदायित्वं सुनिश्चितं कर्तव्यं, न्यायः च विलम्बं विना प्रदातव्यः। केन्द्रीयमन्त्री ‘X’ इत्यत्र उल्लेखद्वारा एतां सूचनां दत्तवान्।
गडकरी इत्यनेन स्वीये एक्सपटले लिखितं यत्, ‘हिमाचलप्रदेशस्य पंचायतीराजमन्त्री तस्य सहकारिभिः च एनएचएआई पीआईयू शिमलाप्रबन्धकस्य अचलजिन्दलस्य उपरि कृतः जघन्यः प्रहार: अत्यन्तनिन्दनीय: विधिशासनस्य अपमानं च अस्ति।’ स्वस्य आधिकारिकं कर्तव्यं निर्वहन्त: लोकसेवकस्य उपरि एतादृशः क्रूरः आघात: न केवलं व्यक्तिगतसुरक्षां संकटं जनयति अपितु संस्थागत अखण्डताम् अपि नष्टं करोति। मया प्रकरणस्य गम्भीरं संज्ञानं कृत्वा मुख्यमन्त्रिणा सह उक्तं, सर्वेषाम् अपराधिनां विरुद्धं तत्कालं अनुकरणीयं च कार्यविधिं कर्तुम् आग्रहः कृतः। उत्तरदायित्वं सुनिश्चितं कर्तव्यं, न्यायः च विलम्बं विना प्रदातव्यः।’ अवधेयं वर्तते यत् एनएचएआई- अभियन्ता अचल जिन्दलः शिमलानगरस्य भट्टाकूफरं यत्र पञ्चतलीयभवनं पतितं तत्र गृहेषु स्थितिं ज्ञापयितुं प्राप्तवान् आसीत्। तत: पूर्वं पंचायतीराजमन्त्री अनिरुद्धसिंहः शिमलाग्रामीण एसडीएम, पुलिसकर्मिण: चापि स्थलं प्राप्तवन्तः आसन्। अस्मिन् काले एनएचएआई-अभियन्तार: अपि तत्स्थानं प्राप्तवन्तः आसन्। एतस्मिन् समये केचन जनाः एनएचएआई-अभियन्तृ-जनानाम् उपरि चपेटिकया मारयित्वा मुष्टिप्रहारं कृतवन्तः। एतस्मिन् समये जनानां समूहे एकः व्यक्तिः एकस्य अभियन्तु: शिरसि घटेन प्रहारं कृतवान्, येन अभियन्तु: दुर्गतिः अभवत्। अधुना आहत- अभियन्तु: उपालम्भे पुलिसस्थानके ढली इत्यत्र पंचायतीराजमन्त्रिण: विरुद्धं प्रकरणं पञ्जीकृतम्। अचल जिन्दल: स्वस्य उपालम्भे अवदत् यत्, “मन्त्री अस्मान् समीपस्थं कक्षं नीत्वा जलघटेन मां ताडितवान्, येन मम शिरः क्षतिग्रस्तः अभवत्। योगेशः हस्तक्षेपं कृतवान् तदा सः अपि ताडितः अभवत्। एसडीएम- पुलिसकर्मचारिणाम् उपस्थितौ अपि कोऽपि मम साहाय्यं न कृतवान्। शिमला पुलिसाधीक्षकः संजीव गान्धी इत्यनेन प्राथमिकी पंजीकृता इति पुष्टिः कृता।
एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
