द्विदिवसीये प्रवासे शिमलां प्राप्तवान् उपराष्ट्रपति जगदीपधनखड़:, राज्यपालेन मुख्यमंत्रिणा च स्वागतम् विहितम्
हिमसंस्कृतवार्ता:- शिमला। उपराष्ट्रपति जगदीपधनखड़: शुक्रवासरे द्विदिवसीये प्रवासे शिमलां प्राप्तवान्। पूर्वं गुरुवासरे सः शिमलानगरम् आगन्तुं निश्चितः आसीत्। उपराष्ट्रपतिः चण्डीगढतः उदग्रविमानेन शिमलानगरस्य अन्नाडेलप्राङ्गणं प्राप्तवान्। अन्नाडेले उपराष्ट्रपतिमहोदयस्य राज्यपालेन शिवप्रतापशुक्लमहोदयेन मुख्यमंत्रिणा सुखविंद्रसिंहसुक्खुना उपमुख्यमन्त्रिणा मुकेश अग्निहोत्रिणा च स्वागतम् विहितम्। अस्मिन् समये मन्त्रिमण्डलमन्त्री विक्रमादित्यसिंहः अपि उपस्थितः आसीत्। तदनन्तरं उपराष्ट्रपते: समूह: राजभवनं प्रति प्रस्थितवान्। उपराष्ट्रपते: भ्रमणं दृष्ट्वा अन्नाडेल-विधानसभा (विधानसभा), शिल्लीचौक- ओक ओवरमार्गे च 11:00 वादनतः प्रायः 12:00 वादनपर्यन्तं वाहनानां आवागमनं निरुद्धम् कृतम्। ७ जून दिनाङ्के डॉ. वाई. एस. परमार उद्यानिकी तथा वानिकी विश्वविद्यालय: नौणी इत्यत्र संवादकार्यक्रमे मुख्यातिथिरूपेण उपराष्ट्रपति: धनखड़: उपस्थितः भविष्यति। उपराष्ट्रपते: भ्रमणार्थं पुलिसैः कठिनसुरक्षाव्यवस्था कृता अस्ति। उपराष्ट्रपते: भ्रमणस्य कारणात् नगरस्य अनेकमार्गेषु वाहनानां गमनम् अपि प्रभावितं जातम्। अस्य विषये पुलिसविभागेन सामान्यजनेभ्य: आह्वानं कृतम् यत् एतेषां मार्गानाम् स्थाने वैकल्पिकमार्गाणां उपयोगः करणीयः। पुलिसस्य मते एतादृशानि वाहनानि क्रेनद्वारा निष्कासितानि भविष्यन्ति। कुमार हाउस इत्यत्र आगच्छद्भ्य: कर्मचारिभ्य: अधिकारिभ्यश्च पुलिसविभागेन अपि आह्वानं कृतम् यत् येषां कृते पार्किङ्गस्य सुविधा अस्ति ते एव स्ववाहनानि कार्यालयं प्रति आनयन्तु।
यातायातकर्तव्ये ३०० तः अधिकाः कर्मचारिणः नियोजिताः
उपराष्ट्रपते: जगदीपधनखड़स्य शिमलायात्रायाः कृते पुलिसैः कठोरसुरक्षाव्यवस्था कृता अस्ति। सुरक्षायातायातकर्तव्येषु ३०० तः अधिकाः पुलिसकर्मचारिणः नियोजिताः सन्ति। अस्य कृते अतिरिक्तपुलिसकर्मचारिणः अपि आहूताः सन्ति। डीएसपी यातायातसंदीपशर्मा इत्यनेन नगरवासिभ्यः आह्वानं कृतं यत् उपराष्ट्रपते: भ्रमणकारणात् यदा जनाः अतीव आवश्यकाः भवन्ति तदा एव उपर्युक्तमार्गाणाम् उपयोगं कुर्वन्तु। अपि तु जनाः वैकल्पिकमार्गेण गन्तुं शक्नुवन्ति।
द्विदिवसीये प्रवासे शिमलां प्राप्तवान् उपराष्ट्रपति जगदीपधनखड़:, राज्यपालेन मुख्यमंत्रिणा च स्वागतम् विहितम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
