जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना
हिमसंस्कृतवार्ता: – कश्मीरतः कन्याकुमारीपर्यन्तं देशः अधुना रेलमार्गेण सम्बद्धः अस्ति इति वक्तव्यम् जम्मू-कश्मीरस्य कटरा-नगरे चेनाब्, अञ्जी-खाद्-सेत्वोः उद्घाटनानन्तरम् प्रधानमन्त्रिणा नरेन्द्रमोदिना दत्तम्। अवसरेऽस्मिन् सः षट्चत्वारिंशत्सहस्र- कोटिरूप्यकाणां बहुविधविकासपरियोजनानां शिलान्यासम्, उद्घाटनं, राष्ट्राय समर्पणं च कृतवान्। जनसमूहं सम्बोधयन् सः अवदत् यत् एताः विकासपरियोजनाः जम्मू-कश्मीरस्य प्रगतिं नूतनीयां गतिं प्रदास्यन्ति । सः जम्मू-कश्मीरं भारतस्य मुकुट रत्नम् इति वर्णितवान्, चिनाब्-अञ्जी-सेतू जम्मू-कश्मीरस्य समृद्धेः द्वाररूपेण कार्यं करिष्यतः इति च सः अवोचत्।
जम्मू-कश्मीरस्य विकास परियोजनाः भारतस्य एकतायाः इच्छाशक्तेश्च महान् उत्सवः अस्ति – प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अद्यतनः कार्यक्रमः भारतस्य एकतायाः इच्छाशक्तेश्च विशालः उत्सवः अस्ति । प्रधानमन्त्री इत्यपि अवदत् यत्, दुर्भाग्येण, अस्मत्प्रतिवेशी देशः मानवतायाः, जनसामान्यान्यस्य च जीवनं विरुध्य कार्यमाचरति। सः अप्रैलमासस्य द्वाविंशे दिनाङ्के पहलगामिति क्षेत्रे घटितघटनायाः उदाहरणम् उल्लिखितवान्। श्रीमोदी अवदत् यत् पाकिस्तानदेशः पहलगाम्-क्षेत्रे मानवीयतया सह कश्मीरियत् इत्यस्योपर्यपि आक्रमणम् अकरोत्, पर्यटनक्षेत्रमिदं लक्ष्यीकृत्य तेनोक्तं यत् पर्यटनमिदम् कश्मीरी-कुटुम्बकेभ्यः जीविकां प्रददाति। श्रीमोदी जम्मू-कश्मीराभ्यां द्वे नूतने वंदेभारतरेलयानेऽपि अघोषयत्। चेनाब्-अञ्जी-सेत्वोः उद्घाटनानन्तरं सः स्मारकमुद्राणां, मुद्राङ्ङ्कानां च विमोचनं कृतवान्।
गतैकादश-वर्षेषु राष्ट्रस्य विकासः युवशक्तेः अतुल्यशक्त्या दृढनिश्चयेन च प्रेरितः अस्ति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी भारतस्य यूनां वैश्विक उपलब्धीः इति आरेखितवान्। तेनोक्तं यत् देशस्य युवानः वैश्विकरूपेण उल्लेखनीयं कार्यं कुर्वन्तः सन्ति। केन्द्रस्य एन्. डी. ए-प्रशासनस्य एकादशवर्षपूर्ती श्रीमोदी युवानः गतिशीलतायाः, नवान्वेषणस्य, दृढनिश्चयस्य च प्रतीकाः सन्ति इति वर्णितवान्। गतैकादश-वर्षेषु राष्ट्रस्य विकासः युवशक्तेः अतुल्यशक्त्या दृढनिश्चयेन च प्रेरितः अस्ति। सामाजिक-प्रसार-लेखने श्रीमोदिना लिखितं यत्, देशे युवानः विविधक्षेत्रेषु अकल्पनीयं कार्यं कृतवन्तः ।
जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
