By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना
राष्ट्रीयवार्ताः

जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना

डॉ.अमनदीप शर्मा
Last updated: 2025/06/07 at 6:31 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

जम्मू-कश्मीरे चेनाब्-अञ्जी-सेतोः उद्घाटनम् कृतम् प्रधानमन्त्रिणा नरेन्द्रमोदिना
हिमसंस्कृतवार्ता: – कश्मीरतः कन्याकुमारीपर्यन्तं देशः अधुना रेलमार्गेण सम्बद्धः अस्ति इति वक्तव्यम् जम्मू-कश्मीरस्य कटरा-नगरे चेनाब्, अञ्जी-खाद्-सेत्वोः उद्घाटनानन्तरम् प्रधानमन्त्रिणा नरेन्द्रमोदिना दत्तम्। अवसरेऽस्मिन् सः षट्चत्वारिंशत्सहस्र- कोटिरूप्यकाणां बहुविधविकासपरियोजनानां शिलान्यासम्, उद्घाटनं, राष्ट्राय समर्पणं च कृतवान्। जनसमूहं सम्बोधयन् सः अवदत् यत् एताः विकासपरियोजनाः जम्मू-कश्मीरस्य प्रगतिं नूतनीयां गतिं प्रदास्यन्ति । सः जम्मू-कश्मीरं भारतस्य मुकुट रत्नम् इति वर्णितवान्, चिनाब्-अञ्जी-सेतू जम्मू-कश्मीरस्य समृद्धेः द्वाररूपेण कार्यं करिष्यतः इति च सः अवोचत्।
जम्मू-कश्मीरस्य विकास परियोजनाः भारतस्य एकतायाः इच्छाशक्तेश्च महान् उत्सवः अस्ति – प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अद्यतनः कार्यक्रमः भारतस्य एकतायाः इच्छाशक्तेश्च विशालः उत्सवः अस्ति । प्रधानमन्त्री इत्यपि अवदत् यत्, दुर्भाग्येण, अस्मत्प्रतिवेशी देशः मानवतायाः, जनसामान्यान्यस्य च जीवनं विरुध्य कार्यमाचरति। सः अप्रैलमासस्य द्वाविंशे दिनाङ्‌के पहलगामिति क्षेत्रे घटितघटनायाः उदाहरणम् उल्लिखितवान्। श्रीमोदी अवदत् यत् पाकिस्तानदेशः पहलगाम्-क्षेत्रे मानवीयतया सह कश्मीरियत् इत्यस्योपर्यपि आक्रमणम् अकरोत्, पर्यटनक्षेत्रमिदं लक्ष्यीकृत्य तेनोक्तं यत् पर्यटनमिदम् कश्मीरी-कुटुम्बकेभ्यः जीविकां प्रददाति। श्रीमोदी जम्मू-कश्मीराभ्यां द्वे नूतने वंदेभारतरेलयानेऽपि अघोषयत्। चेनाब्-अञ्जी-सेत्वोः उद्घाटनानन्तरं सः स्मारकमुद्राणां, मुद्राङ्‌ङ्कानां च विमोचनं कृतवान्।
गतैकादश-वर्षेषु राष्ट्रस्य विकासः युवशक्तेः अतुल्यशक्त्या दृढनिश्चयेन च प्रेरितः अस्ति- प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी भारतस्य यूनां वैश्विक उपलब्धीः इति आरेखितवान्। तेनोक्तं यत् देशस्य युवानः वैश्विकरूपेण उल्लेखनीयं कार्यं कुर्वन्तः सन्ति। केन्द्रस्य एन्. डी. ए-प्रशासनस्य एकादशवर्षपूर्ती श्रीमोदी युवानः गतिशीलतायाः, नवान्वेषणस्य, दृढनिश्चयस्य च प्रतीकाः सन्ति इति वर्णितवान्। गतैकादश-वर्षेषु राष्ट्रस्य विकासः युवशक्तेः अतुल्यशक्त्या दृढनिश्चयेन च प्रेरितः अस्ति। सामाजिक-प्रसार-लेखने श्रीमोदिना लिखितं यत्, देशे युवानः विविधक्षेत्रेषु अकल्पनीयं कार्यं कृतवन्तः ।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: चेनाब्-अञ्जी-सेतोः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत् । जिलाप्रशासनेन ‘डीसी फ़ॉर ए डे’ अभियानं प्रारब्धम्
Next Article द्विदिवसीये प्रवासे शिमलां प्राप्तवान् उपराष्ट्रपति जगदीपधनखड़:, राज्यपालेन मुख्यमंत्रिणा च स्वागतम् विहितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?