By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: डॉ. माधव-मुरलीधर-देशपाण्डे वर्याय “पुरुषोत्तम”: इति पुरस्कारः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > डॉ. माधव-मुरलीधर-देशपाण्डे वर्याय “पुरुषोत्तम”: इति पुरस्कारः
संस्कृतगतिविधयः

डॉ. माधव-मुरलीधर-देशपाण्डे वर्याय “पुरुषोत्तम”: इति पुरस्कारः

डॉ.अमनदीप शर्मा
Last updated: 2025/06/04 at 7:23 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

डॉ. माधव-मुरलीधर-देशपाण्डे वर्याय “पुरुषोत्तम”: इति पुरस्कारः
हिमसंस्कृतवार्ताः वत्स देशराज शर्मा। भवतो ज्ञापयितुमत्यन्तं हर्षमनुभवामि यदस्य वर्षस्य “पुरुषोत्तम” पुरस्कारार्थं सर्वेभ्यः परिचिता: डॉ. माधव-मुरलीधर-देशपाण्डे इत्येतेषां चयनं कृतमासीत्। अयं पुरस्कारः श्रीमत्या: माधुरी-बापट-महोदयाया पितामहस्य ज्येष्ठभ्राता कैलासवासी श्री. पुरुषोत्तम नारायण गाडगीळ इत्यस्य नाम्ना १९८५ तमं वर्षमारभ्य प्रदीयते।श्रीमत्या माधुर्या: पित्रा कैलासवासी श्री. हरिभाऊ वासुदेव गाडगीळ इत्यनेन १९८५ तमे वर्षे तस्या: पितामही कै. जयंती वासुदेव गाडगीळ इत्यस्या नाम्ना एकं ट्रस्ट् स्थापितम्। ततः प्रतिवर्षं कतिपयानां महाराष्ट्रिय-संस्कृतपण्डितानां सत्कारः क्रियते। अद्यावधि सांगली, वाई, सातारा, रत्नागिरी, नाशिक, पुणे, वाराणसी इत्यादिषु स्थलेषु शताधिकाः संस्कृतपण्डिताः सत्कृताः।
श्रीमत्या माधुर्या: पितुः निधनानन्तरं २००६ तमे वर्षे तस्या भ्राता श्री. गणेश-हरिभाऊ-गाडगीळः सांगलीनगरस्थः तां परम्परां निरन्तरं चालयति। अस्मिन् वर्षे पितुः जन्मशताब्दिमहोत्सवं निमित्तीकृत्य उत्तर-अमेरिकायां कतिपयानां महाराष्ट्रिय-संस्कृतपण्डितानां सत्काराय आयोजनं कृतम्। तत्र डॉ. माधव-मुरलीधर-देशपाण्डे इत्येतेषां चयनं कृतमासीत्।अयं पुरस्कारप्रदानसमारोह: रविवारे दिनाङ्क १ जून २०२५ तमे दिवसे प्रातः एकादशवादनात् अपराह्णद्विवादनपर्यन्तं बैंक्वेट् हॉल, उलुवचारू भारतीय-भोजनालये, [६८५ El Camino Real, Sunnyvale, California 94087] इत्यत्र आयोजित आसीत्। श्रीमत्या माधुर्या अस्य समारोहस्य आयोजनं सञ्चालनं च कृतमासीत्। प्राय: पञ्चाशत्सङ्ख्याका जना एतदर्थं निमन्त्रिता आसन् । प्राचार्यदेशपाण्डेमहोदयस्य परिवारसदस्या: सर्वे उपस्थिता आसन्। तथैव बे-एरिया-प्रदेशस्था: सुहृद: परिचिताश्च उपस्थिता आसन् ।सर्वेषां समागतानां स्वागतं कृत्वा श्रीमत्या माधुरी-बापट इत्यनया पुरुषोत्तम-गाडगीळ-पुरस्कारस्य ऐतिह्यं सविस्तरं निवेदितम् । रत्न-सुवर्ण-व्यापारे प्रधानमेतद् गाडगीळकुलं महाराष्ट्रे सर्वत्र प्रसिद्धम् । तेषां शाखा: महाराष्ट्रे, अन्यप्रदेशेषु, परदेशेषु च प्रसृता: सन्ति । तथापि बालिकानां शिक्षाकार्ये संस्कृताध्यनस्य प्रोत्साहने चास्य कुलस्य महती रुचि:। सांगलीनगरे अन्यत्र चानेन कुलेनैतत् कार्यं क्रियते। तस्यैव कार्यस्यैकमेतद् रूपं पुरुषोत्तमपुरस्कार:। डॉ. माधव-देशपाण्डे महोदयस्य तत्पत्न्या: श्रीमत्या शुभाङ्ग्याश्च बहो: कालादारभ्य परिचय: कथं जात इत्यपि श्रीमत्या माधुर्या निवेदितम्। डॉ. देशपाण्डे-महोदयस्य असाधारणं वैदुष्यं सोजन्यं सौहार्दं च तया वर्णितम्।श्रीमत्या माधुर्या भाषणादूर्ध्वं श्रीमता मन्दार-देशपाण्डे महोदयेन डॉ. माधव-देशपाण्डे महोदय: मानपत्रप्रदानेन, पुष्पमालाप्रदानेन, राजतराधाकृष्णमूर्तिप्रदानेन, राजतनारिकेलप्रदानेन पञ्चशतडॉलरप्रदानेन च सभाजित:। एतदनन्तरं डॉ. माधव-देशपाण्डे-महोदयेन पुरस्कारस्वीकाररूपं भाषणं कृतम्। तेन पुरस्कारप्रदानार्थं गाडगीळपरिवारं प्रति कार्तज्ञं प्रकटीकृतम्। स्वीयगुरूणां कथाश्च तेन निवेदिता: । एतेषां गुरूणां मध्ये श्रीमन्त: [कै.] वामनशास्त्रिभागवता: टिळक-महाराष्ट्र-विद्यापीठे देशपाण्डे-महोदयस्य बाल्यादारभ्य द्वादशवर्षाणि यावत् संस्कृताध्यापका आसन्। एतेषां सकाशात् देशपाण्डे-महोदयेन व्याकरणशास्त्रमधिगतम् । श्रीमतां [कै.] यशवन्तराव-मराठे-महोदयानां सकाशात् न्यायशास्त्रमधिगतम्। शालान्तपरीक्षायां [कै.] नरहर-नारायण-भिडे-महोदयानां मार्गदर्शनेन जगन्नाथ-शंकरशेट-संस्कृत-शिष्यवृत्ति: देशपाण्डे-महोदयेन समासादिता । पुण्यपत्तनविश्वविद्यालये डॉ.एस.डी. जोशी-महोदयानां सकाशात् देशपाण्डे-महोदयेन व्याकरणे प्रावीण्यं सम्पादितम्। तेषामेव प्रोत्साहनेन देशपाण्डे-महोदय: पी.एच.डी.पदव्यर्थं अमेरिकायां फिलाडेल्फियानगरे पेन्सिल्व्हानिया-विश्वविद्यालयं सम्प्राप्त:। तत्र तस्य प्रधानाचार्य: प्रा. जॉर्ज कार्दोना-महोदय आसीत्। प्रा. कार्दोना-महोदयानां गुरु: शार्मण्यदेशीय: प्रा. पॉल-थीम-महोदयोऽपि एकवर्षात्मकं कालं पेनसिल्व्हानिया-विश्वविद्यालयमागत: आसीत्। तस्यापि सविधे डॉ. देशपाण्डे-महोदयेन अध्ययनं कृतम् । १९७२तमे संवत्सरे पी.एच.डी.पदवीं सम्प्राप्य डॉ. देशपाण्डे-महोदयेन मिशिगन-विश्वविद्यालये ॲन आर्बर-नगरे प्राध्यापकत्वं स्वीकृतं तत्र च ४५ वर्षाणि संस्कृताध्यापनं कृत्वा स निवृत्तिं स्वीकृतवान्। सम्प्रति स अन्तर्जालद्वारा संस्कृताध्यापनं करोति, वैदिकगणसमूहे च श्लोकशल्यचिकित्सकत्वमपि निर्वाहयति। प्रतिदिनं स संस्कृते कृष्णश्लोकान् विरचय्य सानुवादं प्रकाशयति । नचिरादेवैतेषां श्लोकानां प्रकाशनं मुद्रितरूपेण भविता। एतत् सर्वमैतिह्यं डॉ. देशपाण्डे-महोदयेन समागतेभ्यो जनेभ्यो निवेदितम्। तेन श्रीमतीं शुभाङ्गीं प्रति च आभारा: प्रकटीकृता:। तस्या: प्रोत्साहनमत्यावश्यकमासीदिति तेन कथितम्। समागतेभ्य: सर्वेभ्य: सज्जनेभ्यो धन्यवादाश्च वितीर्णा:।एतदुत्तरं सर्वै: समागतैर्मिलित्वा भोजनं कृतम् । एवमयं पुरस्कारसमारोह: सानन्दं समाप्तिमगमत्।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

TAGGED: डॉ. माधव-मुरलीधर
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article महबूबा मुफ्ती काश्मीरीपण्डितानां राजनैतिकसशक्तीकरणाय आरक्षणस्य आग्रहं कृतवती
Next Article यक्षयुधिष्ठिरसंवादगीतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?