नवदेहल्यां प्रधानमन्त्री नरेन्द्रमोदी तथा पराग्वेदेशस्य राष्ट्रपतिः सैन्टियागो पेन्ना प्लासिओस् इत्येतयोः मध्ये प्रतिनिधिमण्डलस्तरीय वार्ता सञ्जाता
हिमसंस्कृतवार्ता: – नवदेहल्यां प्रधानमन्त्री नरेन्द्रमोदी तथा पराग्वेदेशस्य राष्ट्रपतिः सैन्टियागो पेन्ना प्लासिओस् इत्येतयोः मध्ये प्रतिनिधिमण्डलस्तरीय वार्ता सञ्जाता । अस्मिन् अवसरे उभौ नेतारौ द्विपक्षीयसम्बन्धानां सर्वेषां पक्षाणां समीक्षां कृतवन्तौ । प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्मिन् अवसरे उक्तं यत् द्वयोः देशयोः अङ्कीयप्रौद्योगिकी, कृषिः, रक्षा, रेलमार्गः च अनेकेषु क्षेत्रेषु महद् संभावनाः विद्यन्ते। भारत-पराग्वे देशयोः मध्ये स्वच्छ ऊर्जा, हरित-इंधन तथा जैवईंधन चेत्येषु क्षेत्रेषु निज संबंधान् सुदृढ़ीकर्तुम् निर्णयो विहितः। सममेव उभौ देशौ अन्तर्जालीय अपराधः, मादक पदार्थानाम् अवच आदानं-प्रदानं च दूरी कर्तुम् निज प्रतिबद्धतां प्रकटितवन्तौ । सः अवदत् यत् भारतं पराग्वे च एकीभूय आतङ्कवादविरुद्धमस्ति। अवधेयं वर्त्तते यत् राष्ट्रपतिः सैन्टियागो भारतस्य त्रि-दिवसीय-यात्रायां गतदिवसे नवदेहलीं समागतः। विदेश मंत्री एस. जयशंकरः पराग्वेदेशस्य राष्ट्रपतिना सह मिलितवान् । सममेव उभयोः देशयोः मध्ये अनेकेषु क्षेत्रेषु सहयोगं कर्तुं श्री प्लासियोस-वर्यस्य सकारात्मिकायाः भावनायाः मार्गदर्शनस्य च प्रशंसां विहितवान्। डॉ. जयशङ्करः विश्वासं प्रकटयन् अवदत् यत् उभयोः देशयोः परिचर्चायाः माध्यमेन पराग्वे-दक्षिण-अमेरिका-देशाभ्यां सह भारतस्य नूतनानि मार्गाणि प्रशस्तानि भविष्यन्ति। उपवेशनान्तरं वार्ताहरै: सह परिचर्चाम् कुर्वन् विदेश मंत्रालयस्य सचिवेन प्रोक्तम् यत् उभौ देशौ प्रौद्योगिकीय-क्षेत्रेषु सहयोगं संर्वधयितुं कार्यं कुर्वन्ति । पराग्वे लेटिन अमेरिकादेशे भारतस्य महत्त्वपूर्णः व्यापारिकः सहयोगी वर्तते । प्राप्तवार्तानुसारं राष्ट्रपतिः सैन्टियागो पेन्ना बुधवासरे स्वदेशं प्रत्यागमनात् पूर्वं मुम्बईनगरं गमिष्यति तथा च तत्र राजनेतारः, व्यापारिक उद्योग-प्रतिनिधिभिः, तकनीकी-कर्मचारिभिः सह मेलनमपि करिष्यति ।
पराग्वेदेशस्य राष्ट्रपतिः सैन्टियागो पेन्ना प्लासिओस् भारतस्य यात्रायां प्रधानमन्त्रिणा साकं मिलितवान्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment