वार्ता:
1.हिमाचलप्रदेशसर्वकारः ८०० कोटिरूप्यकाणां ऋणं स्वीकरिष्यति। अस्मिन् विषये वित्तविभागेन शुक्रवासरे राजपत्रे अधिसूचना प्रकाशिता अस्ति। इयं राशिः जूनमासस्य ३ दिनाङ्के सर्वकारीयकोषे आगमिष्यति। एतत् ऋणं २० वर्षाणां कृते गृह्यते। राज्यसर्वकारः २०४५ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कपर्यन्तं अस्य ऋणस्य निष्कृतिं करिष्यति। सर्वकारेण ऋणस्वीकरणस्य कारणं प्रदत्तं यद् अस्य ऋणस्य प्रयोग: विकासात्मककार्येषु भविष्यति।
2.अद्य भविष्यति हिमाचल प्रदेशमन्त्रिमण्डलस्य गोष्ठी। अद्य मध्याह्ने १२ वादने मुख्यमन्त्री सुखविन्दरसिंह सुक्खू इत्यस्य अध्यक्षतायां मन्त्रिमण्डलस्य सभा भविष्यति। राज्यसचिवालये आयोजितायां सभायां विद्युत् निगमस्य मुख्यअभियन्ता स्वर्गीयविमलनेगी इत्यस्य मृत्योः प्रकरणे त्रयाणां वरिष्ठाधिकारिणां विरुद्धे कृताया: कार्यविधिविषये चर्चा भविष्यति।
3.कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।
प्रधानमंत्रिणा हरितध्वजं प्रदर्श्य कानपुरमेट्रोरेलपरियोजनायाः द्वितीयचरणस्य शुभारम्भ: कृत:।
4.शुक्रवासरे कानपुरनगरे समागत: प्रधानमन्त्रीनरेन्द्रमोदी चकेरीविमानस्थानके पहलगाम-आतङ्क-आक्रमणे मृतस्य शुभमद्विवेदीइत्यस्य कुटुम्बसदस्यैः सह मिलितवान्। शुभमद्विवेदी इत्यस्य पिता सञ्जयद्विवेदी, माता सीमाद्विवेदी भार्या ऐशन्या च तत्रोपस्थिता आसीत्।
5.श्रीमोदी स्वकीये भाषणे पाकिस्तानस्य उपरि शब्दाक्रमणं कृतवान्।
असौ सम्भाषितवान् यद् भारतं प्रत्येकं आतङ्कवादिनं समुचितं प्रत्युत्तरं प्रदास्यति। प्रत्युत्तरं प्रदानस्य कालस्य, मार्गस्य च विषये अस्माकं सैन्यबलं स्वयमेव निर्णयं करिष्यति।
6.हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालये जुलाईमासाद् आरभ्य पञ्चपाठ्यक्रमेषु अन्तर्जलीयमाध्यमेन शिक्षां प्रदास्यति। तदर्थं केन्द्रीयविश्वविद्यालये दूरस्थं, आनलाईनशिक्षाकेन्द्रं इति सुस्थापितं अस्ति । अन्तर्जालशिक्षायाः प्रारम्भेन केन्द्रीयविश्वविद्यालयः देशस्य छात्रेभ्यः अपि च अन्यदेशेभ्यः छात्रेभ्यः गृहे एव गुणवत्तापूर्णशिक्षां प्रदास्यति।