कानपुरनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना विविधविकासपरियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतम्।
(हिमसंस्कृतवार्ता शिवा शर्मा)
विगतदिने प्रधानमन्त्रीनरेन्द्रमोदी कानपुरतः गौतमबुद्धनगरे तिसृणां महत्त्वपूर्णविद्युत्परियोजनानाम् उद्घाटनं आधारशिलासंस्थापनञ्च कृतवान्। एतासां परियोजनानाम् अनुमानितो व्यय: प्रायः ३५० कोटिरूप्यकाणि इति वर्तते।
प्रधानमन्त्री श्रीनरेन्द्रमोदी विगतदिने १५ प्रमुखपरियोजनानाम् उद्घाटनं शिलान्यासञ्च कृतवान्। तत्रैव हरितध्वजं प्रदर्श्य कानपुरमेट्रोरेलपरियोजनायाः द्वितीयचरणस्य शुभारम्भं कृतवान्।
उत्तरप्रदेशस्य मुख्यमन्त्री श्रीआदित्यनाथयोगी सर्वकारस्य उपलब्धिनां समीक्षां गणनाञ्च कृतवान्।
कानपुरनगरे समायोजिते प्रधानमन्त्रिण: अस्मिन् कार्यक्रमे मुख्यमन्त्रीयोगीआदित्यनाथ: अपि उपस्थित: आसीत्। मुख्यमन्त्रीयोगी सर्वकारस्य उपलब्धिनां विषये अद्यतनकार्यक्रमस्य च विषये सूचनां प्रदत्तवान्।
शुभमस्य परिवारः चकेरीविमानस्थानके प्रधानमन्त्रिणा सह अमिलत्।
शुक्रवासरे कानपुरनगरे समागत: प्रधानमन्त्रीनरेन्द्रमोदी चकेरीविमानस्थानके पहलगाम-आतङ्क-आक्रमणे मृतस्य शुभमद्विवेदीइत्यस्य कुटुम्बसदस्यैः सह मिलितवान्। शुभमद्विवेदी इत्यस्य पिता सञ्जयद्विवेदी, माता सीमाद्विवेदी भार्या ऐशन्या च तत्रोपस्थिता आसीत्।
प्रधानमन्त्रिणा स्वकीये भाषणे पाकिस्तानस्य उपरि शब्दाक्रमणं कृतम्।
श्रीमोदी स्वकीये भाषणे पाकिस्तानस्य उपरि शब्दाक्रमणं कृतवान्।
असौ सम्भाषितवान् यद् भारतं प्रत्येकं आतङ्कवादिनं समुचितं प्रत्युत्तरं प्रदास्यति। प्रत्युत्तरं प्रदानस्य कालस्य , मार्गस्य च अस्माकं सैन्यबलं स्वयमेव निर्णयं करिष्यति। द्वितीयं भारतं परमाणुविस्फोटस्य तर्जनेन भयभीतो न भविष्यति न च तदाधारितं किमपि निर्णयं करिष्यति। भारतं आतङ्कवादिनां स्वामिन: आतङ्कवादिनां संरक्षणं कुर्वत् सर्वकारं च समदृष्टया पश्यति।
“ऑपरेशनसिन्दूर” इत्यस्य अद्यापि न समापनम् नाभवत्, “शत्रुः कस्यापि भ्रमस्याधीने मा तिष्ठेत्” इति प्रधानमन्त्री नरेन्द्रमोदी सम्भाषितवान्।