संस्कृतभारती उत्तराञ्चलम् द्वारा निःशुल्कचिकित्साशिविरस्य सफलं आयोजनम्
हरिद्वारम् (संवाददाता) संस्कृतभारत्या उत्तराञ्चलस्य प्रान्तीयकार्यालयपरिसरे स्थिते स्वामी वैराग्यनन्दपुरी धर्मार्थहोम्योपैथिकचिकित्सालये जनपदहोम्योपैथिकविभागस्य सहयोगेन अद्य निःशुल्कचिकित्साशिविरस्य आयोजनं सम्पन्नम्।
शिविरस्य शुभारम्भः दीपप्रज्वलनपूर्वकं जातः। अस्मिन् प्रसङ्गे ख्यातत्वग्विकारविशेषज्ञः डॉ॰ यतीन्द्र नागियान्, चिकित्सकः डॉ॰ गजेन्द्र त्यागी, संस्कृतभारत्याः क्षेत्रसंपर्कप्रमुखः प्रो॰ प्रेमचन्दशास्त्री, एम.ओ.आई.सी. डॉ॰ चञ्चलसिंह (जनपदहोम्योपैथिकचिकित्साविभागः), च श्रीदेशराजशर्मा च उपस्थिताः आसन्।
डॉ॰ यतीन्द्र नागियानः स्वस्य भाषणे अस्य सेवाकार्यस्य प्रसन्नतां व्यक्त्वा उक्तवान् यत् संस्कृतभारत्याः कार्यालये प्रतिदिनं प्रातः नववादनात् दशवादनपर्यन्तं एषः धर्मार्थचिकित्सालयः सञ्चाल्यते, यत्र निःशुल्कं परामर्शं औषधप्रदानं च क्रियते, येन शतशः जनाः लाभं प्राप्नुवन्ति।
डॉ॰ गजेन्द्र त्यागी स्वीयसन्देशे अवदत् यत् संस्कृतभारती समये समये एतेषां चिकित्साशिविराणां आयोजनं करोति, ये समाजस्य कृते अत्यन्तं लाभदायकानि सन्ति।
श्रीदेशराजशर्मा संस्कृतभारत्याः सेवाभावस्य प्रशंसां कुर्वन् उक्तवान् यत् — “परहितसेवार्थं क्रियमाणं एतत् कार्यं अत्यन्तं प्रशंसनीयं प्रेरणादायकं च अस्ति।”
अस्मिन् चिकित्साशिविरे शतशः रोगिणः स्वास्थ्यसम्बद्धं परामर्शं प्राप्तवन्तः, तान् आवश्यकाः औषधयः अपि निःशुल्कं प्रदत्ताः।
शिविरस्य सफलसञ्चलने चिकित्सकाणां सह जनपदहोम्योपैथिकचिकित्साविभागात् श्रीहिमांशुः (फार्मासिस्ट्), श्रीप्रदीपः, श्रीप्रमोदः, डॉ॰ पवनकुमारः, विवेकशुक्लः, श्रीराजुः, श्रीसन्तोषः इत्येते सेवाभाविनः कार्यकर्तारः अपि सक्रियं योगदानं दत्तवन्तः।
शिविरसमाप्तौ प्रान्तसङ्घटनमन्त्री श्रीगौरवशास्त्री सर्वान् अतिथीन्, चिकित्सकान्, सहयोगिनश्च प्रति आभारं प्रकट्य भविष्ये कालेऽपि एतेषां जनसेवाकार्याणां निरन्तरं प्रवाहं स्थापयिष्यतीति संकल्पं पुनरुक्तवान्।