हिमाचलप्रदेशे ब्रॉडबैंडसेवाभि: अत्याधुनिका: भवन्ति २८०९ ग्रामीणवरिष्ठमाध्यमिकविद्यालयाः
हिमाचलप्रदेशे २८०९ ग्राम्यवरिष्ठमाध्यमिकविद्यालयाः ब्रॉडबैंड्-जालसंपर्केन अत्याधुनिका: (हाईटेक) भवन्ति। विद्यालयेषु ब्रॉडबैंड्-जालसंपर्कस्य व्यवस्था सुनिश्चेतुं ‘समग्रशिक्षा’ ‘भारतसञ्चारनिगमसीमित’ (बीएसएनएल) इत्यनयो: च मध्ये सोमवासरे एकं महत्वपूर्णं संविदम् अभवत्। समग्रशिक्षायाः प्रतिनिधित्वं कुर्वन् राज्यपरियोजनानिदेशकः राजेशः शर्मा च बीएसएनएल-इत्यस्य पक्षतः डीजीएम राजकुमारः च उक्तं सम्बन्धपत्रम् हस्ताक्षरं कृतवन्तौ।एतेन सम्बन्धपत्रेण यत् निर्धारितं, तेन ‘फाइबर् टू द होम्’ (एफटीटीएच्) इत्यस्य तन्त्रज्ञानस्य माध्यमेन ग्राम्यवरिष्ठविद्यालयेभ्यः जालसंपर्कः प्रदास्यते। राजेशः शर्मा उक्तवान् यत् सहमति: शैक्षिकक्षेत्रे ऐतिहासिकं पङ्क्तिं इति। सः अवदत् यत् ब्रॉडबैंड्-जालसंपर्केन विद्यालयेषु आईसीटी, सूचना-तन्त्रज्ञानम्, स्मार्ट्-कक्षा इत्यादीनां नवोन्मेषानां प्रभावशाली संचालनं सम्भवः भविष्यति।
अस्य प्रकल्पस्य अन्तर्गतं राज्यस्य २८०९ ग्राम्यवरिष्ठमाध्यमिकविद्यालयाः सम्मिलिताः सन्ति। तेषु प्रायः सहस्रं विद्यालयाः पूर्वमेव जालसंपर्कयुक्ताः सन्ति, किन्तु तेषां वर्तमानसंपर्कं अपि ब्रॉडबैंड्-रूपेण उन्नतं भविष्यति। केन्द्रसर्वकारेण स्कूलीशिक्षामंत्रालयं सञ्चारमंत्रालयं च अस्य योजनायाः सक्रियम् सहयोगं ददाति।भारतब्रॉडबैंड्-नेट्वर्क्-लिमिटेड् (भारत्-फाइबर्) इत्यनेन ब्रॉडबैंड्-स्थापनायाः व्ययं च जालसंपर्कस्य मूल्यं च वहिष्यते। मासिकोपयोगशुल्कं केन्द्रसर्वकारतः कम्पोजिट्-ग्राण्ट् रूपेण दीयते। यत्र विद्यालयेषु जालसंपर्कः न अस्ति, तत्र फिजिबिलिटी-प्रतिवेदनं सज्जीकृते अस्ति। आगामीषु मासेषु तत्रापि जालसंपर्कः सुनिश्चितः भविष्यति।
अस्मिन्नवसरे विद्यालयीयशिक्षानिदेशकः आशीषः कोहली अपि उपस्थितः आसीत्।
विद्यालयेभ्यः अविरतं तीव्रगतिकं जालसंपर्कं लभ्यते – गुप्ता
बीएसएनएल-हिमाचलस्य सीजीएम अनिलकुमारगुप्तेन उक्तं यत् ‘भारत्-नेट्’ परियोजनातः देशस्य सम्पूर्णपञ्चायताः ब्रॉडबैंड्-जालसंपर्केन संयोज्यन्ते। हिमाचले अपि प्रायः २०,००० किलोमीटर् दीर्घा आप्टिकल्-फाइबर्-रेखा २१०० कोटिरूप्यकाणां व्ययेन स्थापिता जाता। सः समग्रशिक्षया सह कृतं संविदम् अतीव महत्वपूर्णं इति उक्तवान्, येन विद्यालयेभ्यः अविरतं तीव्रगतिकं ब्रॉडबैंड्-जालसंपर्कं लभ्यते। प्रायः सहस्रं विद्यालयेषु जालसंपर्कः अस्ति, चतुःशतानां विद्यालयानां फिजिबिलिटी-प्रतिवेदनं सज्जीकृतं च अस्ति। शेषेषु विद्यालयेषु अपि शीघ्रं ब्रॉडबैंड्-संपर्कः प्रदास्यते। बीएसएनएल् उत्तमं ब्रॉडबैंड्-जालसंपर्कं च, त्वरितं आन्तर्जालिकशिक्षा( ऑनलैन्
)-उपालम्भ-निवारणप्रणालीं च विकसितुं प्रयासं करिष्यति।
शैक्षिकम्, प्रशासनिकम्, डाटाप्रबन्धनम् च सुगमं भविष्यति
ब्रॉडबैंड्-सुविधया विद्यालयेषु शैक्षिकक्रियाः डिजिटलीकृताः भविष्यन्ति, छात्राणां उपस्थिति-प्रणाली च अभिलेखप्रबन्धनम् च अधिकं प्रभावशालीं भविष्यतः। छात्राः टैबलेट्, संगणककक्षः, डिजिटल-ग्रन्थालयः च इत्यादीनां माध्यमेन आन्तर्जालिकशिक्षा (ऑनलाइन्)-शैक्षिकसाधनानां उपयोगं कृत्वा स्वाध्यायं समृद्धं कर्तुं शक्नुवन्ति। एवं ते डिजिटल्-परिक्षायां, अभ्याससामग्रीषु, परियोजनाकार्येषु च लाभं प्राप्स्यन्ति।
हिमसंस्कृतवार्ता: – शिमला डॉ.पद्मनाभः।