By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमंत्री नरेन्द्रमोदी गुजरातस्य गांधी-नगरे सार्ध-पञ्चसहस्र-कोटि रूप्यकाणाम् अनेकासां विकास-परियोजनानाम् उद्घाटनं आधारशिलास्थापनं च विहितवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमंत्री नरेन्द्रमोदी गुजरातस्य गांधी-नगरे सार्ध-पञ्चसहस्र-कोटि रूप्यकाणाम् अनेकासां विकास-परियोजनानाम् उद्घाटनं आधारशिलास्थापनं च विहितवान्
राष्ट्रीयवार्ताः

प्रधानमंत्री नरेन्द्रमोदी गुजरातस्य गांधी-नगरे सार्ध-पञ्चसहस्र-कोटि रूप्यकाणाम् अनेकासां विकास-परियोजनानाम् उद्घाटनं आधारशिलास्थापनं च विहितवान्

डॉ.अमनदीप शर्मा
Last updated: 2025/05/28 at 6:51 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

प्रधानमंत्री नरेन्द्रमोदी गुजरातस्य गांधी-नगरे सार्ध-पञ्चसहस्र-कोटि रूप्यकाणाम् अनेकासां विकास-परियोजनानाम् उद्घाटनं आधारशिलास्थापनं च विहितवान्
हिमसंस्कृतवार्ता: – प्रधानमंत्री नरेन्द्रमोदी प्रोक्तवान् यत् सद्यस्तनीयैः घटनाक्रमैः सिद्धं भवति यत् पाकिस्तानस्य भारतं विरूद्धं तथाकथित छद्म युद्धम् एकं सुनियोजितं युद्ध-रणनीतिः वर्तते। गुजरातस्य गांधी नगरस्य महात्मा मंदिरे एकां जनसभां संबोधयन् सः प्रोक्तवान् यत् मईमासस्य षड् दिनांकस्य घटनानां पश्चाद् भारतं आतंकी गतिविधीनां प्रमाणयितुं आवश्यकता नास्ति । श्री मोदी प्रोक्तवान् यत् भारतं कश्चिदपि अशान्तिं नैव वाञ्छति। सः प्रोक्तवान् यत् देशः एवं प्रकारेण प्रगति कर्तुम् आकांक्षते यत् विश्वस्य कल्याणे योगदानं प्रदद्यात् । प्रशासनं कोटिशः भारतीयानाम् उत्थानाय पूर्ण मनसा कार्यं कुर्वन् अस्ति। विगत मिथ्या नीतीनां उल्लेखं कुर्वता प्रधानमंत्रिणा युवभ्यः आग्रहः कृतः यत् ते एतादृशानां ऐतिहासिक निर्णयानां अध्ययनं कुर्वन्तु, येन राष्ट्रीय हितानां क्षरणं जातम् । प्रधानमंत्री नरेन्द्रमोदी स्वाधीनतायाः शतवर्षाणां पूर्त्यवसरे विकसितभारतस्य दृष्टिकोणं संप्राप्तुं सर्वविध प्रयासाः क्रियते । अमुं स्वप्नं साकारयितुं प्रत्येकं नागरिकं निज भूमिका निभालयिष्यति। प्रधानमंत्री देशवासिभ्यः भारतीय उत्पादकानाम् उपयोगं कर्तुं प्रेरितवान्। इतः पूर्वं प्रधानमंत्री नरेन्द्रमोदी गांधी नगरस्य महात्मा मंदिरे षत्रिंशदुत्तरपञ्चशताधिक पञ्चसहस्र कोटि रूप्यकाणां विकास परियोजनानां उद्घाटनं विहितवान् । एतासु परियोजनासु नागरीय विकासः, आधारभूतसंरचना, जलसंसाधन-प्रबंधनम्, स्वास्थ्य सेवाः राजस्व सेवाः समेत्य नैकानि महत्वपूर्णानि क्षेत्राणि सम्मिलितानि सन्ति ।

रक्षामंत्रिणा राजनाथ-सिंहेन उन्नत-मध्यम-योधू-विमान- ए.एम.सी.ए. इत्येतं कार्यक्रमं निष्पादनाय स्वीकृतिः प्रदत्ता
हिमसंस्कृतवार्ता: – रक्षामंत्रिणा राजनाथ सिंहेन उन्नत-मध्यम-योधू-विमान- ए.एम.सी.ए. इत्येतं कार्यक्रमं निष्पादनाय स्वीकृतिः प्रदत्ता। अस्य प्रतिरूपस्य उद्देश्यं भारतस्य स्वदेशीय रक्षाक्षमतानां संवर्धनाय, एकस्य सुदृढ़ गृह एयरोस्पेस औद्योगिक पारिस्थितिकी तंत्रस्य विकासः अस्ति। रक्षा मंत्रालयेन उक्तं यत् एतत् उन्नत-मध्यम-योधु-विमानादर्शः विकसित करणाय स्वदेशीय दक्षता, क्षमता इत्येतयोः उपयोगस्य दिशि एकः महत्वपूर्णः पदक्षेपः अस्ति ।

प्रत्यक्षकर-केन्द्रीयमण्डलेन- (सीबीडीटी) आयकर-प्रत्यावर्तनाय पञ्जीकरणस्य अन्तिमा तिथिः, अस्मिन् वर्षे एकत्रिंशत् जुलाईतः पञ्चदश सितम्बरपर्यन्तं विस्तारिता
हिमसंस्कृतवार्ता: – प्रत्यक्षकरस्य केन्द्रीयमण्डलेन (सीबीडीटी) आयकर-प्रत्यावर्तनाय पञ्जीकरणस्य अन्तिमा तिथिः, अस्मिन् वर्षे एकत्रिंशत् जुलाईतः पञ्चदश सितम्बरपर्यन्तं विस्तारिता अस्ति। सीबीडीटी इत्यनेन स्वस्य वक्तव्ये उक्तं यत् आई.टी.आर.-रूपेषु महत्त्वपूर्णपुनरीक्षणे, प्रणाल्याः विकास-आवश्यकतायाः, टी.डी.एस.-ऋणप्रतिबिम्बे च एषः विस्तारः जनानां कृते अधिकं समयं प्रदास्यति।

शारदा सिन्हा, कुमुदिनी रजनीकान्त लखिया च मरणोपरांत: पद्मविभूषणेन पुरस्कृतौ
हिमसंस्कृतवार्ता: – राष्ट्रपति: द्रौपदी मुर्मु: राष्ट्रपतिभवने द्वितीय-नागरिकालङ्करणसमारोहे पद्मपुरस्काराः प्रददत्तवती । ध्यातव्यं वर्त्तते यत् पद्मपुरस्कारः देशस्य सर्वोच्चनागरिकपुरस्कारेषु अन्यतमः अस्ति, यस्मिन् पद्मविभूषणं, पद्मभूषणं, पद्मश्रीः च त्रयः वर्गाः सन्ति । अस्मिन् वर्षे सर्वकारेण ऊनचत्वारिंशदधिकैकशतं यावत् पद्मपुरस्काराः घोषिताः सन्ति, येषु सप्त पद्मविभूषणं, एकोनविंशतिः पद्मभूषणं, त्रयोदशाधिकैकशतं यावत् पद्मश्रीपुरस्काराः च सन्ति। अस्मिन् वर्षे अष्टषष्टि: प्रख्याताः जनाः पद्मपुरस्कारेण सम्मानिताः । तेषु भारतस्य पूर्वमुख्यन्यायाधीशः जगदीशसिंह खेहरः, कुमुदिनी रजनीकान्त लखिया च मरणोपरांत: पद्मविभूषणेन पुरस्कृतौ ।

भाजपादलस्य सांसदः रविशंकरप्रसादस्य नेतृत्वे सर्वदलीयप्रतिनिधिमण्डलं फ्रान्सदेशस्य राष्ट्रियराजधान्यां वार्ताहरैः सह मिलितवान्
हिमसंस्कृतवार्ता: – भारतेन सर्वदलीयप्रतिनिधिमण्डलैः विभिन्नदेशानां यात्रां कृत्वा आतङ्कवादविरुद्धं शून्यसहिष्णुतायाः सन्देशः प्रसारितः, अतः वैश्विकस्तरे पाकिस्तानस्य आत‌ङ्कवादस्य समर्थनं निरन्तरं प्रदर्शयति। भाजपादलस्य सांसदः रविशंकरप्रसादस्य नेतृत्वे सर्वदलीयप्रतिनिधिमण्डलं फ्रान्सदेशस्य राष्ट्रियराजधान्यां फ्रांसदेशस्य वार्ताहरैः सह मिलितवान्। उपवेशनानन्तरं श्रीप्रसादः अवदत् यत् आतङ्कवादस्य विषये भारतस्य दृष्टिकोणम् अतीव स्पष्टं वर्तते। सः अवदत् यत् भारतेन अन्तिमविकल्परूपेण सटीकप्रहारः कृतः। भारतेन आतङ्कवादीशिबिरेषु तेषां वायुसेनाप्रतिष्ठानेषु च आक्रमणं कृत्वा अतीव निर्णायकरूपेण प्रतिक्रिया प्रदत्ता। श्रीप्रसादः अवदत् यत् सिन्दूराभियानं सम्प्रति स्थगितम् अस्ति। डीएमके-सांसदः कनिमोझी करुनानिधेः नेतृत्वे अन्यः प्रतिनिधिमण्डलः राष्ट्रियसभायां स्लोवेनिया-देशस्य राष्ट्रियपरिषदः अध्यक्ष: मार्क लोट्रिक् इत्यनेन सह मिलितवान् । काङ्ग्रेस- दलस्य सांसदः शशिथरूरस्य नेतृत्वे सर्वदलीय प्रतिनिधिमण्डलं दक्षिणामेरिकादेशस्य ‘गुयाना’ देशस्य यात्रां कृतवान् । वार्ताहरान् संबोधयन् डॉ. थरूरः अवदत् यत् गुयानादेशेन भारतस्य आतङ्कवादीनां आक्रमणैः स्वस्य रक्षणस्य, प्रभावीरूपेण प्रतिक्रियायाः च कार्याचरणस्य समर्थनं कृतम्। तत्रैव जेडीयू-सांसदः संजयकुमारझा इत्यस्य नेतृत्वे सर्वदलीयप्रतिनिधिमण्डलेन सि‌ङ्गापुरस्य वरिष्ठविदेशकार्याणां गृहराज्य-मन्त्रिणा च सह उपवेशनं कृतम्।
पी.वी. सिन्धु एच.एस. प्रणय च सिंगापुर ओपन एकल स्पर्धायाः द्वितीये चक्रे प्रविष्टवन्तौ
हिमसंस्कृतवार्ताः। बैडमिंटन क्रीडायां शीर्ष भारतीयक्रीडिका पी.वी. सिन्धु एच.एस. प्रणय च सिंगापुर ओपन एकल स्पर्धायाः द्वितीये चक्रे प्रविष्टवन्तौ। महिला-एकल-स्पर्धायां सिंगापुरे सिन्धु इत्यनया क्रीडायाः प्रथमे चक्रे कनाडादेशस्य वेन-यू-झांग इत्यमुं एकविंशति-चर्तुदश, एकविंशति-नव इत्यंकान्तरालेन पराजितम्।

भारतस्य गुलवीर-सिंहेन दक्षिण कोरियायाः गुमीनगरे स्वर्ण-पदकं अधिगतः
हिमसंस्कृतवार्ताः। भारतस्य गुलवीर-सिंहेन दक्षिण कोरियायाः गुमीनगरे एशियाई एथलेटिक्स चैंपियनशिप-इत्येतस्यां स्पर्धायां पुरुष-वर्गस्य दससहस्र मीटरमितस्य धावन-प्रतियोगितायां स्वर्ण पदकम् अधिगतः। गुलवीरेण अष्टविंशतिः निमेषपरिमितस्य समयमालक्ष्य शीर्ष स्थानं अधिगतम्। इतः पूर्वं सेर्विन-सेबेस्टियन इत्येषः अस्यां स्पर्धायां कांस्य पदकं विजितमासीत् ।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: प्रधानमंत्री नरेन्द्रमोदी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article The Raja Saheb : दक्षिणस्य नायकस्य प्रभासस्य ‘द राजा साहब’ चलच्चित्रम् अधुना शीघ्रमेव प्रसारितं भविष्यति
Next Article हिमाचलप्रदेशे ब्रॉडबैंडसेवाभि: अत्याधुनिका: भवन्ति २८०९ ग्रामीणवरिष्ठमाध्यमिकविद्यालयाः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?