समाजस्य आधारशिला गुरु: एव – “महापौरः शैलेन्द्ररावत:”
राजकीय-शिक्षक-संघेन दुगड्डा-विकास-खण्डे कोटद्वारे शैक्षिक-उन्नयन-गोष्ठी आयोजिता।
हिमसंस्कृतवार्ताः-कुलदीपमैन्दोला।कोटद्वारम् । राजकीयः शिक्षक-संघः, दुगड्डा-विकास-खण्डस्य तत्त्वावधानस्य अन्तर्गतम् एकदिवसीया शैक्षिक-उन्नयन-गोष्ठी कोटद्वार-नगरस्थे सभागारे आयोजिता अभवत्। अस्मिन् कार्यक्रमे कोटद्वार-नगर-निगमस्य महापौरः श्री-शैलेन्द्र-सिंह-रावत: मुख्य-अतिथिरूपेण उपस्थितः आसीत्। गोष्ठ्याः अध्यक्षता शिक्षक-संघस्य जनपदाध्यक्षः बलराजः गुसाईं कृतवान्।कार्यक्रमस्य आरम्भः राजकीया-बालिका-वरिष्ठमाध्यमिक- विद्यालय: कोटद्वारस्य बालिकाभिः दीपप्रज्वलनं सरस्वती-वन्दनया च सह अभवत्। ततः परम् अतिथीनां स्वागत-अलंकरणं सत्कारः च कृतः।गोष्ठ्याम् मुख्यवक्ता श्री-कुलदीपमैन्दोला अद्यतन-शैक्षिक- परिवेशे गुरूणां दायित्वं, राष्ट्रीय-शिक्षा-नीतिः २०२० च तस्य प्रभावः, विद्यालय-स्तरे नवाचाराणां आवश्यकता च इत्येतेषु विषये विस्तरेण प्रकाशं कृतवान्। सः अवदत् – “शिक्षकै: विद्यार्थिनां बौद्धिक-नैतिक-सामाजिक-विकासे सकारात्मकं योगदानं दातव्यं। शिक्षायाः उन्नयने यदि संग्रामः स्यात्, उत्साहेन सह; यदि सङ्गः स्यात्, तर्हि सः साधुतया; यदि द्वन्द्वः स्यात्, तर्हि समासेन; यदि विच्छेदः स्यात्, तर्हि सन्धिना भवेत्।” सः अपि उक्तवान् – “शिक्षकः जीवनपर्यन्तं शिष्यं अग्रे नयति, किन्तु शासनं तं यथोचितं सम्मानं न ददाति। संघः एषां शैक्षिक-कर्तव्यानां संवर्द्धनाय कार्यं करोति।”सहवक्तृरूपेण कविताशिक्षिकया अपि विद्यालय-गतिविधीनां, बाल-संसद:, प्रयोग-आधारित-शिक्षणस्य, सहशैक्षिक-कार्यक्रमाणां च महत्त्वे विशेषं बलं दत्तम्। सा अवदत् – “यत्र छात्रस्य प्रदर्शनं उत्तमम्, तत्र न प्रचारः जातः; यत्र तु छात्रः असफलः अभवत्, तत्र तस्य दोषः अधिकेन प्रकाशितः अभवत्।”गोष्ठ्याम् विविध-विद्यालयेभ्यः आगतानां शिक्षकैः अपि स्वानुभवाः संयुक्तीकृताः, च विद्यालयेषु प्रवर्तमानाः नवाचार-योजनाः अपि चर्चिताः। शिक्षकैः, छात्रैः, विद्यालयैः च मिलित्वा समग्रं शैक्षिक-वातावरणं कथं निर्मातुं शक्यम् इत्यपि चर्चायाम् अभवत्। तया कथितं यत् अस्माभि: शिक्षकानां हतोत्साहनं न कर्तव्यं ।मुख्य-अतिथि श्री-शैलेन्द्र-सिंह-रावतः स्वस्य भाषणे शिक्षकैः योगदानस्य प्रशंसा कृत्वा उक्तवान् – “समाजस्य नीवं गुरूणां हस्ते एव भवति।” तेन अपि उक्तम् – “कोटद्वार-नगर-निगमः भविष्ये अपि एवं शैक्षिक-कार्यक्रमान् प्रोत्साहयिष्यति।”द्वितीयसत्रे निर्वाचनाधिकारी श्री-बृजेन्द्रसिंह-नेगिना, सहनिर्वाचनाधिकारिणा उमाकान्त-कुकरेतीद्वारा निर्देशनं कृत्वा संघस्य नूतन-कार्यकारिण्याः गठनाय मतदानं सम्पन्नम् कृतं। उपाध्यक्षपदे श्री-सञ्जय-शर्मा, अध्यक्षपदे श्री-विजेन्द्र-तोमर:, मन्त्रीपदे श्री-सञ्जयसिंह-रावत: इत्येते विजयिन: अभवन्। शेषपदाधिकारिण: निर्विरोधेन निर्वाचिताः अभवन् । कार्यक्रमस्य संचालनं जनपद-संयुक्त-मन्त्री श्री-आशीष-खर्कवालः अकुर्वत्। पूर्व-जनपद-मन्त्री श्री-मनमोहन-चौहानः नूतन-पदाधिकारिण: संघीय-सेवानां शपथवाचनं च कृत्वा प्रतिज्ञां दत्तवान्।
समाजस्य आधारशिला गुरु: एव – “महापौरः शैलेन्द्ररावत:”
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
