प्रधानमन्त्रिणा नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उद्घाटनम् कृतम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् तदीयं प्रशासनम् आतङ्कवादम् अशान्ति-प्रसारकान् माओवादि-तत्त्वान् च विरुध्य शून्य-सहिष्णुतायाः नीतौ कार्यम् आचरति । राजधान्यां नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उद्घाटनावसरे श्रीमोदिनोक्तं यत् विकसित-भारतस्य निर्माणाय देशस्य पूर्वोत्तर-क्षेत्रस्य विकासः नितराम् आवश्यकः । प्रधानमन्त्री अवोचत् यत् एकस्मिन् समये पूर्वोत्तरं केवलं सीमान्तक्षेत्रमति उच्यते स्म। प्रधानमन्त्रिणा स्वीकृतं यत् पूर्वोत्तर-क्षेत्रेण अतीतकाले बहूनि समाह्वानानि सम्मुखीकृतानि, परम् इदानीं तत् क्षेत्रम् अवसराणां भूमिरूपेण उदीयते। श्रीमोदिना शिखर सम्मेलने उद्योग-जगतः प्रमुखजनानाम् उपस्थितिः श्लाघिता। प्रोक्तं च यत् क्षेत्रे उपलब्धावसराणि आदाय उत्साहस्य परिवेशो वर्तते। अस्मिन् अवसरे पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया अवोचत् यत् केन्द्र-प्रशासनेन पूर्वोत्तर-क्षेत्रे आधारभूत संरचनां सम्पर्क च समेधितुं बहु-कार्य कृतम् ।
भारतेन गोलिकाप्रहार-सैन्य-कार्याचरणयोः स्थगन-सहमतेः माध्यमेन पाकिस्तानेन सह सङ्घर्षः सम्प्रति समासाधितः – विदेश-मन्त्री डॉ. एस. जयशङ्कर:
हिमसंस्कृतवार्ता: – विदेश-मन्त्रिणा डॉ. एस. जयशङ्करेण उक्तं यत् भारतेन गोलिकाप्रहार-सैन्य-कार्याचरणयोः स्थगन-सहमतेः माध्यमेन पाकिस्तानेन सह सङ्घर्षः सम्प्रति समासाधितः। डेनमार्कस्य वार्ताभिकरणेन सह साक्षात्कारे डॉ. जयशङ्करेण प्रोक्तं यत् पाकिस्तानं विरुध्य भारतस्य काठोर-कार्याचरणेन एतत् सम्भवम् अभूत् । विदेशमन्त्री डॉ. एस जयशंकरः जर्मनस्य चांसलरेण फेडरिक मर्जेण सह बर्लिने अमिलत् । जयशंकरः प्रधानमन्त्रिणः नरेन्द्रमोदिनः शुभकामनाः जर्मनस्य चांसलराय फेडरिक मर्जाय प्रायच्छत् ।
सिंदूराभियानं पहलगाम – आक्रमणस्य उत्तरमस्ति- गृहमंत्री अमितशाहः
हिमसंस्कृतवार्ता: – केन्द्रीय गृहमंत्री अमितशाहः प्रावोचत् यत् सिंदूराभियानं पहलगाम – आक्रमणस्य उत्तरमस्ति । अपि च अद्य विश्वं भारतीय सशस्त्र बलानां वीरतायाः प्रशंसा कुर्वदस्ति । श्रीशाहः प्रोक्तवान् यत् इदं कार्यं प्रशासनस्य सुदृढया राजनीतिक-इच्छा शक्त्या गुप्त-समवायानां प्रमाणिक-सूचनाभिः तथा सशस्त्र-बलानां घातकै-क्रियान्वयनैः च सम्भवम् अभवत् । नवदेहल्यां सीमा-सुरक्षा-बलस्य अलंकरण-समारोहं संबोधयन् श्रीशाहः प्रोक्तवान् यत् बी.एस.एफ इति सीमा-सुरक्षा-बलेन सशस्त्र बलेन च पाकिस्तानं प्रति भारतस्य उत्तरपूर्वकं क्रियान्वयनं महत्याः वीरतायाः रक्षायाश्च सच्छक्तेः प्रदर्शनमस्ति ।
सर्वदलीय-प्रतिनिधिमण्डलयो: यात्रा । एकं जापानस्य टोक्योनगरे, अपरश्च मास्कोनगरे प्राप्तवन्तौ
हिमसंस्कृतवार्ता- जनता-दल-युनाइटेड इति दलस्य संजय-झा सांसदस्य नेतृत्वे जापानं गच्छत् सर्वदलीय-प्रतिनिधिमंडलम् जापाने टोक्यो नगरे लिबरल-डेमोक्रेटिक पार्टीति दलस्य आतंकरोधि समितेः कार्यवाहक अध्यक्षेण पूर्व न्याय-मन्त्रिणा यासूहिरो हनाशी इत्यनेन सह मेलनं कृतम् । प्रतिनिधिमंडलम् आतंकवादस्य सर्वेषां रूपाणां विरोधे भारतस्य दृढं-पक्षं अप्रकाशयत् । अपरत्र डी.एम.के. सांसदस्य कनिमोई करूणानिधेः नेतृत्वे एकम् अन्यत् सर्वदलीयम् प्रतिनिधिमण्डलं मास्कोनगरं सम्प्राप्तवत् । रूसे भारतीयः राजदूतः विनयकुमारः प्रतिनिधिमण्डलस्य आधिकारिक-गतिविधीनां प्रारम्भात् पूर्वम् भारत-रूसयोः सम्बन्धानां विभिन्नेः पक्षैः अवागमयत्।
विगतेषु दशवर्षेषु पञ्चाशत् सहस्रकिलोमीटर-यावत् रेलवेसञ्जालस्य विद्युतीकरणं कृतम् – रेल-मन्त्री अश्विनी वैष्णवः
हिमसंस्कृतवार्ता: – रेल-मन्त्री अश्विनी वैष्णवः अवदत् यत् राष्ट्रम् उन्नत प्रौद्योगिक्या विकासेन च साकं वन्दे-भारत नमो-भारत प्रभृति: नूतन रेलयानानि चालयितुम् आत्मनिर्भरं जायते। मुङ्गेरस्य जमालपुरे एकं समारोहं सम्बोधयन् श्री-वैष्णवः अवोचत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशेन विगतेषु दश वर्षेषु पञ्चाशत् सहस्र किलोमीटर-यावत् रेलवे सञ्जालस्य विद्युतीकरणं कृतम् ।
अमरीका-ईरानदेशयोः मध्ये चतुर्थं वारं वार्ता संजाता
हिमसंस्कृतवार्ता: – अमरीका-ईरानयोः मध्ये इटलीदेशस्य राजधान्यां रोम-नगर्यां पञ्चम-क्रमस्य अप्रत्यक्षा वार्ता प्रारब्धा। उभयोः देशयोः मध्ये इदानी यावत् चतुर्थं वारं वार्ता संजाता। एतासु तिस्र: वार्ताः ओमानस्य राजधान्यां मस्कटे संजाताः। एका च रोमे अभवत् । एषा वार्ता परमाणु कार्यक्रम विषयकं गतिरोधं अमरीकीयं प्रतिबंधं च अपाकर्तुम् वर्तते। अवधेयमस्ति यत् एषा वार्ता ओमानेन कार्यते।