वार्ता:
1.हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अद्यत्वे नवदेहल्या: यात्रायाम् अस्ति। मुख्यमन्त्री वित्तमन्त्री निर्मला सीतारमण इत्यनया सह मिलित्वा राज्यस्य विभिन्नानां वित्तीयविषयाणां समाधानं कर्तुं प्रार्थितवान् । सः गुरुवासरे रात्रौ श्रीमती सीतारमण–इत्यनया सह मिलित्वा राज्यसर्वकारसम्बद्धेषु विषयेषु ध्यानं प्रदातुं आग्रहं कृतवान्।
2.हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे नवदेहलीनगरे भारतस्य मुख्यन्यायाधीशेन बी.आर.गवईमहोदयेन सह मिलितवान्। मुख्यमन्त्री पदोन्नयनोपलक्ष्ये मुख्यन्यायाधीशाय वर्धपनानि अयच्छत्। अस्मिन्नावसरे सुक्खुमहोदय: गवई महोदयं देवभूमिहिमाचलप्रदेशे भ्रमणार्थमपि आमन्त्रितवान्।
3.हिमाचलप्रदेशस्य नैकभागेषु सप्तदिनानि यावत् निरन्तरवृष्टे: सम्भावना। मईमासस्य २४ दिनाङ्के ओलावृष्टे: झञ्झावातस्य च सचेतना।
4.अधुना हिमाचलप्रदेशे आयोजितायां BRCC खण्डसंसाधनकेन्द्रसमन्वयक–परीक्षायां सफलाभ्यर्थिनां साक्षात्कारस्य शिक्षणकौशलमूल्याङ्कनस्य च प्रक्रिया आरब्धा अस्ति। समग्रशिक्षाया: अन्तर्गतं BRCC पदानां कृते अप्रैलमासस्य षड्दिनाङ्के आयोजिताया: लिखितपरीक्षापरिणामस्य घोषणाया: अनन्तरं सम्प्रति अग्रिमचरणे साक्षात्कारा: क्रियन्ते। साक्षात्कारस्य प्रक्रिया मईमासस्य २६ दिनाङ्कात् आरभ्यते।