पोप फ्रांसिसः सुदीर्घ-रोगानन्तरं निधनम् उपगतः। प्रधानमन्त्रिणा मोदिना प्रकटिताः शोकसंवेदनाः
हिमसंस्कृतवार्ता: – पोप फ्रांसिस इत्यस्य अष्टाशीति-वर्ष-वयोमिते आयौ सुदीर्घ-रोगस्य कारणेन निधनं जातम्। असौ विभिन्नरोगैः पीडितः आसीत्, अथ च साम्प्रतिकेषु सप्ताहेषु तस्य स्थितिः अतोऽपि गम्भीरा जाता आसीत्। पोप फ्रांसिसः निर्धनानां कृते सहयोगाचरण-परस्य कैथोलिक चर्च-गृहस्य नूतानाकार-प्रवर्तकत्वेन अभिज्ञायते। पोप-फ्रांसिसः त्रयोदशोत्तर-द्वि-सहस्र-तम-वर्षात् पूर्व लैटिन अमेरिकीय-पोप-पदत्वेन प्रचितः आसीत्। असौ चर्चस्य इतिहासे सर्वाधिक-वृद्ध-पोपेषु एकतमः मन्यते। तस्य निधनं वेटिकन नगरस्य कासा-सांटा-मार्टा-स्थिते तदीये एव निवासे जातम्। असौ सुदीर्घ-समयात् रुग्णः चलति स्म। अथ च असौ एकमास-पर्यन्तम् उपचारानन्तरं मार्च-चतुर्विंश्यां निजे निवासे प्रत्यावर्तितः आसीत् ।
प्रधानमन्त्रिणा मोदिना प्रकटिताः शोकसंवेदनाः ।
अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी पोप फ्रांसिसस्य निधने गहनं दुःखं प्रकटितवान्। सममेव वैश्विक-कैथोलिक-समुदायं प्रति संवेदनाश्चापि व्यक्तीकृताः सन्ति । सामाजिक संजालीये-सन्देशे श्रीमोदी उदैरयत् यत्, पोप फ्रांसिसः सर्वदा करुणा-विनम्रता-आध्यात्मिक साहसादिनां प्रतीकत्वेन स्मरिष्यते। श्रीमोदिना पोपेन साकं विहितानि नैजानि उपवेशनानि अपि स्मृतानि, प्रोक्तं च यत् पोपस्य समावेशितापूर्ण सर्वांगीण विकासं प्रति प्रतिबद्धतया असौ प्रेरितः अस्ति। अत्रावसरे जर्मनदेशस्य चांसलर इति राष्ट्राध्यक्षेण ओलाफ स्कोल्ज इत्यमुना, ब्रिटिश प्रधानमन्त्रिणा कीर स्टारमर-वर्येण, इटली देशस्य प्रधानमन्त्रिणा मेलोनी वर्यया, फ्रांस-राष्ट्रपतिना इमैनुअल मैक्रों इत्यमुना चापि गम्भीरः शोकः प्रकटितः अस्ति।
पोप फ्रांसिसः सुदीर्घ-रोगानन्तरं निधनम् उपगतः। प्रधानमन्त्रिणा मोदिना प्रकटिताः शोकसंवेदनाः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment