राहुलगान्धी भारतीयनागरिकः अस्ति वा न-न्यायालयः
इलाहाबाद उच्चन्यायालयस्य लखनऊ-पीठिका सोमवासरे राहुलगान्धिनः-नागरिकतायाः विषये प्रकरणस्य श्रवणं कुर्वन् केन्द्रसर्वकारात् दशदिनान्तरे स्वस्य स्थितिं स्पष्टीकर्तुं आदेशं दत्तवती अस्ति। उच्चन्यायालयेन केन्द्रसर्वकारेण पृष्टं यत् राहुलगान्धी भारतीयनागरिकः अस्ति वा न वा इति। केन्द्रसर्वकारेण सोमवासरे न्यायाधीशस्य ए.आर.मसूदी-न्यायाधीशस्य अजयकुमारश्रीवास्तव-प्रथमस्य च विभागपीठस्य समक्षं स्थितिप्रतिवेदनमपि प्रस्तुतम्।अस्मिन् विषये न्यायालयेन उक्तं यत् केवलं ज्ञातुम् इच्छति यत् राहुलगान्धी नागरिकः अस्ति वा न वा। अस्य प्रकरणस्य अग्रिमं श्रवणं मे ५ दिनाङ्के भविष्यति।
राहुलगान्धी भारतीयनागरिकः अस्ति वा न-न्यायालयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
