जेडी-वेंसः चतुर्दिवसीय यात्रायां भारतं सम्प्राप्तः। सायं प्रधानमन्त्रिणा मोदिना साकमपि मेलनं जातम्
हिमसंस्कृतवार्ता: – अमेरिकीयः उपराष्ट्रपतिः जे. डी. वेंसः गतदिवसे नवदेहलीं प्राप्तः। चतुर्दिवसीय-भारत-यात्रायाम् आगतस्य अमेरिकीय-उपराष्ट्रपतेः जे. डी. वेंस इत्यस्य स्वागतसत्कारं सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः कृतवान्। अवधेयमस्ति यद् उपराष्ट्रपतेः वेंसस्य एषा प्रथमा भारत-यात्रा वर्तते। देहलीम् आगत्य अमेरिकायाः उपराष्ट्रपतिः जेडी वेंसः, तत्रत्या द्वितीया महिला च उषा वेंसः सपरिवारं अक्षरधाम मन्दिरं गत्वा अक्षर-पुरुषोत्तम-भगवतः पुण्यदर्शनं कृतवन्तः । अथ च सांयकाले असौ प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं सम्भाषणम् कृतवान् । अमेरिकीय-उपराष्ट्रपतेः जे डी वेंसस्य भारत-यात्रा देश-द्वयस्य द्वै-पाक्षिक-सम्बन्धानां प्रगतेः समीक्षायाः, किञ्च अस्मिन् वर्षे फरवरीमासस्य त्रयोदश्यां प्रधानमन्त्रिणः नरेन्द्र-मोदिनः अमेरिका-यात्रायाः अवसरे प्रख्यापितस्य भारत-अमेरिका-संयुक्त-वक्तव्यस्य परिणामानां कार्यान्वयनस्य च कृते अवसरं प्रदास्यति। उभावपि पक्षौ परस्परं हितानां क्षेत्रीय-विकासेषु वैश्विक विकासेषु च विचार-विनिमयमपि अकुरुताम् । प्रधानमन्त्री मोदी, अमेरिकीय उपराष्ट्रपतिः वैन्स् च ऊर्जा, रक्षा, रणनीतिक प्रौद्योगिक्याः च सहकार्यं वर्धयितुं सततं प्रयत्नानाम् चर्चां कृतवन्तौ। भारत-अमेरिका-द्विपक्षीयव्यापारसन्धेः प्रगतेः स्वागतम् अपि प्रधानमन्त्री मोदी, वैन्स् च कृतवन्तौ । ततः पूर्वं जेडी वैन्सः प्रधानमन्त्रिणः निवासस्थानं प्राप्य तस्य साक्षात्कारं कृतवान् । अस्मिन् काले वैन्सस्य परिवारः तस्य समीपे आसीत् ।
जेडी-वेंसः चतुर्दिवसीय यात्रायां भारतं सम्प्राप्तः। सायं प्रधानमन्त्रिणा मोदिना साकमपि मेलनं जातम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment