HP Education Department : ग्रीष्मकालीनविद्यालयेषु एप्रिलमासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं अवकाशा: नैव भविष्यन्ति
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य विद्यालयेषु एप्रिलमासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं ग्रीष्मकालीनावकाशाः न भविष्यन्ति। उच्चशिक्षानिदेशालयेन शनिवासरे अस्मिन् विषये अधिसूचना प्रकाशिता अस्ति। एतेषु विद्यालयेषु एप्रिलमासस्य प्रथमदिनात् आरभ्य नूतनं शैक्षणिकसत्रम् आरभ्यते।गतदिनात् सामाजिकमाध्यमेषु उक्तं यत् एतेषु विद्यालयेषु एप्रिलमासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं अवकाशाः भविष्यन्ति। शनिवासरे निदेशालयेन एतानि सर्वाणि कार्याणि समाप्य अवकाशदिनानि न भविष्यन्ति इति सूचना प्रसारिता।
निदेशालयेन उक्तं यत् २०२५-२६ तमस्य वर्षस्य शैक्षणिकसत्रस्य सर्वकारीयविद्यालयेषु अवकाशकार्यक्रमे परिवर्तनस्य कारणात् अधुना परीक्षापरिणामानन्तरं १ एप्रिलतः ४ पर्यन्तं विरामः न भविष्यति। अस्मिन् संदर्भे उच्चशिक्षा निदेशक: डॉ.अमरजीतशर्मणा पक्षत: कार्यालयीयादेशा: निर्गता: सन्ति।