शिमलावार्ता: – यूकेदेशं प्रति हरिद्राया: निर्यातं करिष्यति हिमाचलप्रदेश: मुख्यमंत्री ब्रिटिश-उप-उच्चायोगेन सह चर्चायां रुचिं प्रदर्शितवान्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशः यूकेदेशं प्रति हरिद्रानिर्यातस्य योजनां करोति। ब्रिटिश-उप-उच्चायोगेन सह चर्चां कृत्वा मुख्यमन्त्री अस्मिन् विषये तीव्ररुचिं प्रदर्शितवान् । मुख्यमंत्री सुखविन्दरसिंहसुक्खुः कुल्लूनगरे कृषि-उद्योगस्य विषये अपि च राज्ये भारतीयसञ्चालितस्य स्कॉटिश-भट्टी-स्थापनस्य विषये च चर्चां कृतवान् । एतदतिरिक्तं हरितजलवायुः, विद्युत्वाहनानि, पर्यटनं, दुग्धं, खाद्यप्रसंस्करणम् इत्यादीनां विषये अपि चर्चा अभवत् । मुख्यमन्त्री सम्बन्धित-अधिकारिभ्यः निर्देशं दत्तवान् यत् ते यूके-प्रतिनिधिमण्डलेन सह अग्रिम-समागमं कुर्वन्तु येन प्रस्ताविताः परियोजनाः प्रभावीरूपेण कार्यान्विताः भवेयुः |
सुक्खुः उक्तवान् यत् एष: समागमः यूके-हिमाचल-सम्बन्धानां अधिकं सुदृढीकरणस्य दिशि महत्त्वपूर्णं सोपानम् अस्ति, येन विभिन्नेषु क्षेत्रेषु द्वयोः देशयोः सहकार्यस्य आदान-प्रदानस्य च नूतनाः अवसराः सृज्यन्ते, सोमवासरे ब्रिटिश-उप-उच्चायोगस्य प्रतिनिधिमण्डलेन चण्डीगढे़ मुख्यमन्त्रिणं मिलित्वा यूके-हिमाचल-प्रदेश-सम्बन्धानां सुदृढीकरणस्य विषये चर्चा कृता। प्रतिनिधिमण्डलस्य नेतृत्वं यूके-उप उच्चायुक्ता कैरोलिन् रोवेट्, यूके-सर्वकारस्य राजनैतिक-प्रेस-परियोजना-परामर्शक: राजेन्द्रा एस. नागरोटी अकरोत् । सः मुख्यमन्त्रिणं यूके-हिमाचलयोः मध्ये प्रचलति सम्भाव्यसहभागिताविषये च सूचितवान् ।
समागमे मुख्यमन्त्री कृषिप्रौद्योगिकी (एग्रीटेक्), हरितहाइड्रोजन, विद्युत्वाहनानि, पर्यटनं, दुग्धउद्योगः, खाद्यप्रसंस्करणं, विवरणभण्डारणं, जलसंसाधनप्रबन्धनम् इत्यादिषु क्षेत्रेषु सहभागिविषये तीव्ररुचिं प्रदर्शितवान्। सः अस्मिन् क्षेत्रे यूके-देशस्य विशेषज्ञतायाः लाभं गृहीत्वा परस्परविकासस्य प्रगतेः च प्रवर्धनस्य आवश्यकतायाः उपरि बलं दत्तवान् । कैरोलिन् रोवेट् हिमाचलप्रदेशस्य, यूके-निवेशानां च विषये उक्तवती ।