CM Sukhu : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः मार्च १७ दिनाङ्के प्रस्तोस्यति आय-व्ययकम्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य गोष्ठी शनिवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां राज्यसचिवालये शिमलायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। राज्यमन्त्रिमण्डलस्य सत्रे २०२५ तमस्य वर्षस्य मार्चमासस्य १० दिनाङ्कात् २८ मार्चपर्यन्तं हिमाचलप्रदेशविधानसभायाः आय-व्ययकं सत्रं (बजटसत्र) कर्तुं राज्यपालाय अनुशंसितुं निर्णयः कृतः। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः १७ मार्च दिनाङ्के हिमाचलस्य आय-व्ययकम् (बजट) प्रस्तुतं करिष्यति। बजटसत्रे १५ सभाः भविष्यन्ति। राज्यपालस्य सम्बोधनं मार्चमासस्य १० दिनाङ्के भविष्यति। तदनन्तरं तस्य चर्चा भविष्यति। मुख्यमन्त्री १३ मार्च दिनाङ्के चर्चायाः प्रतिक्रियां दास्यति। मन्त्रिमण्डलस्य निर्णयानां विषये मन्त्रिणः हर्षवर्धन चौहान, अनिरुद्धसिंहः च सूचनां दत्तवन्तौ।