By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,
संस्कृतगतिविधयः

दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,

डॉ.अमनदीप शर्मा
Last updated: 2025/02/06 at 6:59 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

दिल्लीमतदानम्-ः ५७.८९ प्रतिशतं मतदानेन दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम्,
हिमसंस्कृतवार्ताःनवदेहली। गतगुरुवासरे दिल्लीविधानसभानिर्वाचनस्य सर्वेषु ७० आसनेषु मतदानं सम्पन्नम् जातम्। सायं ६ वादनपर्यन्तं राजधान्यां ५७.८९ प्रतिशतं मतदातारः मतदानं कृतवन्तः । अस्मिन् काले ६९९ अभ्यर्थीनां भाग्यं ईवीएम-मध्ये गृहीतम् । ८ फरवरी दिनाङ्के परिणामस्य घोषणा भविष्यति। पूर्वोत्तरदिल्लीनगरे सर्वाधिकं मतदानप्रतिशतं ६३.८३ प्रतिशतं, दक्षिणपूर्वदेशे च न्यूनतमं ५३.७७ प्रतिशतं च आसीत् ।
भाजपा सांसदः मनोज तिवारिण संसदीयं निर्वाचनक्षेत्रमस्ति यत्र विगतेषु 12 वर्षेषु न्यूनतमं मतदानमस्ति। आम आदमीपक्षः तृतीयवारं सत्ताप्राप्त्यर्थं संघर्षे व्यस्तः अस्ति, तत्र भाजपा-काङ्ग्रेस-पक्षः अपि दिल्ली-नगरस्य सिंहासनं ग्रहीतुं संघर्षं कुर्वन्तः सन्ति । भाजपा २५ वर्षाणाम् अधिकं कालात् सत्तातः बहिः अस्ति। यत्र आम आदमीदलात् पूर्वं काङ्ग्रेसः १५ वर्षाणि यावत् सत्तायां आसीत्, परन्तु गतनिर्वाचनद्वये दलं एकमपि आसनं प्राप्तुं न शक्तवान्।
निर्वाचनरणे प्रमुखप्रत्याशिनः आम आदमी पार्टीति-दलस्य राष्ट्रिय-संयोजकः अरविन्दकेजरीवालः दिल्ल्याःमुख्यमन्त्री आतिशी दिल्ल्याः मन्त्री गोपालरायः भाजपेतिदलीयाः विजेन्द्रगुप्ता प्रवेशवर्मा रमेशबिधूडी कलाशगहलोतः च वर्तन्ते। कांग्रेसदलस्य संदीपदीक्षितः हारूनयुसूफः अल्कालाम्बाः च विद्यन्ते। राष्ट्रिय-राजधान्यां स्वतन्त्रं निष्पक्षं शान्तिपूर्ण च मतदानं सुनिश्चितुं व्यापकप्रबन्धनं विहितमस्ति। सप्ततिविधानसभाक्षेत्रेषु भूयोऽपि सप्तशतोत्तर-त्रयोदशसहस्रं यावत् मतदानकेन्द्राणि स्थापितानि। उपराष्ट्रपति जगदीप धनखड़ अवोचत् यतृ मतदानं लोकतन्त्रस्य आधारो वर्तते अपि च प्राणभूत्तवेन वर्तते तेन वार्ताहरच सम्वादे प्रोक्तं यत् मतदानं सर्वेषां अधिकाराणां मूलमन्त्रं विद्यते । तत्रैव मुख्यनिर्वाचनायुक्त राजीव कुमारेन दिल्ली विधानसभायाः सुष्ठु निर्वाचन संचालनाय अधिकारिणां, सुरक्षाबलानां, सममेव अन्येषां प्रयासानां प्रशंसां विहिता। दिल्ल्याः उपराज्यपालः विनय कुमार सक्सेना सर्वान् अपि जनान् आग्रहं अकरोत् यत् ते लोकतन्त्रस्य महोत्सवे निष्वप्रचं भाग-ग्रहणं कुर्वन्तु। तेनोक्तं यत् मतदानं जनानां वाणी अस्ति।
तमिलनाडु-राज्यस्य ईरोड्-पूर्व-विधानसभाक्षेत्रस्य मतदानम्
तमिल्नाडु-राज्यस्य ईरोड्-पूर्व-विधानसभाक्षेत्रस्य, उत्तरप्रदेशस्य मिल्कीपुर्-मण्डलस्य च उप-निर्वाचनस्य मतदानम् अपि सम्पन्नम्। पञ्चवादनं, यावत्, चतुःषष्टिः दशमलव द्वि प्रतिशतं यावत् मतदानं ईरोड्-पूर्वे सञ्जातम्। अपि च पञ्चषष्टिः दशमलव पंचविंशतिः प्रतिशतं यावत् मिल्कीपुरे सञ्जातम्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article CM Sukhu : पूर्वसर्वकारः नूतनानां संस्थानां उद्घाटने केन्द्रितः आसीत्, परन्तु सुविधाः न प्रदत्ताः
Next Article महाकुम्भः- सङ्गमे अवगाहनं कृत्वा वसुधैव कुटुम्बकम् इत्यस्य सन्देशः दत्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?