भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी दृश्य-श्रव्यपरान्तर्जालीय माध्यमेन सम्पत्स्वामिभ्यः स्वामित्व-योजनान्तर्गतं पञ्चषष्टिलक्षाधिकानि सम्पत्ति-पत्रकानि वितरितवान्। दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु सम्पत्ति-पत्रकानि वितरितानि । अवसरेऽस्मिन् प्रधानमन्त्रिणा प्रोक्तं यत् ग्रामीण-अर्थव्यवस्थायै इदं ऐतिहासिकं दिनं वर्तते। तेनोदीरितं यत् स्वामित्व-योजनायाः क्रियान्वयनानन्तरं विगतेषु पञ्चविंशति-लक्षाधिक-द्विकोट्यधिकानि सम्पत्ति-पत्राणि निस्सारितानि सन्ति। लाभार्थिभिः सह संवादक्रमे श्रीमोदिना प्रोक्तं यत् सम्पत्तेः प्रलेखपत्राणामभावः विशिष्टसमस्या वर्तते। एताः समस्याः विवादस्पदाः भवितुमर्हन्ति। तेनोदीरितं यत् सम्पत्तेः उचितप्रलेखपत्रैः वित्तालयेषु ऋणप्राप्तौ सरलता भविष्यति। सहैव तेन कथितं यत् सम्पत्तेः प्रलेखपत्राणि देशे शतलक्षकोटि-रूप्यकाणाम् आर्थिक क्षमताम् उद्घाटयिष्यन्ति। प्रधानमन्त्रिणा कथितं यत् स्वामित्व-योजनायां ग्रामीण-अर्थव्यवस्था विकासस्य मुख्यस्तम्भः भविष्यति। श्रीमोदिना कथितं यत् प्रशासनेन भूम्यभिलेखानां प्रविधिकरणे अपि कार्यं विधीयते। तेन प्रोक्तं यत् विगतेषु सप्ताष्टवर्षेषु देशे अष्टनवतिः प्रतिशतं भूम्यभिलेखानां प्रविधिकरणं समभवत्। तेन एतदपि प्रोक्तं यत् सम्पत्तेः अधिकारप्रापणेन ग्रामपंचायतानामपि समस्याः दूरी भविष्यन्ति। सहैव वैध सम्पत्ति-प्रलेखैः आपत्स्थितौ सम्पत्तेः स्वामित्व-प्रदर्शनमपि सरलीभविष्यति।
भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment