By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?
प्रादेशिकवार्ताहिमाचलवार्ता

HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?

डॉ मनोज शैल
Last updated: 2025/01/08 at 11:17 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

कर्नाटकराज्ये सद्यः एव मानवमेटान्यूमोविषाणो: (एचएमपीवी) प्रकरणानाम् विषये मंगलवासरे सर्वेषां राज्यानां केन्द्रीयप्रदेशानां च स्वास्थ्यसचिवैः सह केन्द्रीयस्वास्थ्यसचिवस्य अध्यक्षतायां सभा आयोजिता। अस्मिन् सत्रे केन्द्रस्य स्वास्थ्यसचिवः अवदत् यत् ह्यूमन मेटाप्न्यूमोविषाणु: एकः सामान्यः विषाणु: अस्ति यः अधिकतया बालकेषु, प्रौढेषु, दुर्बलप्रतिरक्षायुक्तेषु जनेषु च प्रसरति।

भारतसर्वकारेण उक्तं यत् एषः सामान्यः विषाणुः अस्ति, अतः आतङ्कस्य आवश्यकता नास्ति। भारते पूर्वमपि अस्य विषाणुना संक्रमणं जातम् । अस्य मुख्यलक्षणं कासः, ज्वरः, नासिकासंकोचः, तीव्रप्रसङ्गेषु श्वासप्रश्वासयोः क्षुब्धता इत्यादयः सन्ति तथा च ब्रोंकाइटिस, निमोनिया च भवितुम् अर्हति । एषः विषाणुः एकस्मात् व्यक्तितः अन्यतमं प्रति कासः, श्वासः, हस्तप्रहारः इत्यादिभिः प्रसरति । अयं विषाणुः किमपि गम्भीरं रोगं न जनयति । उपर्युक्तलक्षणस्य सन्दर्भे समीपस्थं स्वास्थ्यकेन्द्रं गत्वा स्वस्य परीक्षणं करणीयम् ।

भारतसर्वकारेण आयोजिताया: सभायाः अनन्तरं हिमाचलप्रदेशस्य स्वास्थ्यसचिवस्य अध्यक्षतायां सर्वेषां चिकित्सामहाविद्यालयानाम् प्राचार्यैः, सर्वेषां मण्डलानां मुख्यचिकित्साधिकारिभिः, सर्वेषां चिकित्साधीक्षकै: च सह आभासीय- सभा आयोजिता। सभायां स्वास्थ्यसचिवेन मार्गदर्शिकाः प्रसारिताः यत् इन्फ्लूएन्जा अथवा गम्भीरतीव्रश्वसनसिण्ड्रोमस्य सर्वेषां प्रकरणानाम् निरीक्षणं करणीयम्।

*किमस्ति मानवमेटान्यूमोविषाणु: (HMPV) ?*

> मानवस्य मेटोप्न्यूमोविषाणु: एच.एम.पी.वी इति अपि ज्ञायते यः मानवस्य श्वसनतन्त्रं प्रभावितं करोति । प्रथमवारं २००१ तमे वर्षे अस्य परिचय: अभवत् । ततः नीदरलैण्ड्देशस्य वैज्ञानिकाः तस्य आविष्कारं कृतवन्तः । एषः पैरामाइक्सोविरीडे परिवारस्य एकः विषाणुः अस्ति ।

> अन्येषां श्वसनविषाणुना इव संक्रमितजनानाम् कासस्य, श्वासस्य च समीपे स्थित्वा अपि अयं प्रसरति ।

> केषुचित् अध्ययनेषु विश्वसितं यत् अयं विषाणुः विगतषड्दशकेभ्यः विश्वे वर्तते ।

*एच.एम.पी.वी.-विषाणुना कः कियत्पर्यन्तं प्रभावितः भवति ?*

> अनेन मुख्यतया बालकाः प्रभाविताः भवन्ति । परन्तु दुर्बलप्रतिरक्षायुक्तेषु जनेषु वृद्धेषु च अस्य प्रभावः अभिलेखितः अस्ति ।

> अस्य विषाणुकारणात् जनाः शीत-कास-ज्वर-कफादिभि: पीड़िता: भवितुं शक्नुवन्ति । अधिकगम्भीरेषु कण्ठस्य, श्वसनमार्गस्य च अवरोधात् जनानां मुखात् वीटीध्वनिः अपि श्रूयते ।

> केषुचित् गम्भीरतरेषु प्रकरणेषु अयं विषाणुः जनान् ब्रोंकिओलाइटिस (फेफड़ों में ऑक्सीजन ले जाने वाली नली में सूजन) निमोनिया (फुफ्फुसानां जलेन पूरणं) च जनयितुं शक्नोति अस्य कारणात् संक्रमितानां जनानां चिकित्सालये प्रवेशः करणीयः भवेत् ।

> यतो हि तस्य लक्षणं कोरोना-संक्रमणं सामान्य-फ्लू-सदृशं भवति, तस्मात् द्वयोः भेदं वक्तुं कठिनम् अस्ति । परन्तु यत्र प्रत्येकं ऋतौ कोरोना महामारी प्रसृता। यत्र एचएमपीवी अद्यावधि मुख्यतया ऋतुसंक्रमणं मन्यते । परन्तु अनेकेषु स्थानेषु आवर्षंउ अस्य उपस्थितिः अभिलेखिता अस्ति ।

> कोरोना इत्येतत् विहाय अस्य विषाणुना श्वसनमार्गस्य उपरितनभागयोः संक्रमणस्य संकट: भवितुम् अर्हति ।

> सामान्येषु सति अस्य विषाणो: प्रभावः त्रि-पञ्चदिनानि यावत् भवति ।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HMPV VIRUS, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री
Next Article Medical Science : अग्नाशयस्य कर्करोगस्य चिकित्सायां शल्यक्रियारहिताः तकनीकाः प्रभाविणः इति शोधकार्ये ज्ञातम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?